SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३६१ न तेषां जायते वीर्य जीवितव्यस्य वाञ्छकः । न मृत्योर्ये भयं चकुस्तेऽप्पला ? स्युर्जयान्विताः ॥१॥ अथाल्पस्य बलवता सह युद्धमानस्य यथा जयो भवति पुरुषस्य तथाह लघुरपि सिंहशावो हन्त्येव दन्तिनम् ॥ ६५ ॥ टीका-सिंहशावो मृगराजशिशुर्गुरुमपि दन्तिनं विनाशयत्येव । तथा च जैमिनिः-- यद्यपि स्याल्लघुः सिंहस्तथापि द्विपमाहवे। एवं राापि वीर्याढयो महारिं हन्ति चेल्लघुः ॥ १॥ अथ शत्रौ भग्ने विजिगीषुणा यत्कर्तव्यं तदाहनातिभग्नं पीडयेत् ॥६६॥ टीका-शत्रुर्भग्नो यदा भवति तदा तत्पृष्ठेन न व्रजेत् यतः स वध्यमानः पराक्रमं करोति । तथा च विदुरः भग्नः शत्रुर्न गन्तव्यः पृष्ठतो विजिगीषुणा । कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥ १ ॥ अथ बलवतः प्रियोपचारः कृतो यथा स्यात्तथाहशौर्यैकधनस्योपचारो मनसि तच्छागस्येव पूजा ॥ ६७ ॥ टीका---शौर्यशालिनो यो प्रियोपचारोऽभीष्टपूजा सत्कारः। स किं विशिष्ट इव ? पूजेव सत्कार इव । कस्य ? मनसि तच्छगलस्य उपयाचितकृतस्य मनसि तमुपयाचितमार्तस्याभीष्टदेवतायाः (१)। तथा च भागुरिः उपायाचितदानेन च्छागेनापि प्ररुष्यति । चंडिका बलवान् भूपः स्वल्पयापि तथेज्यया ।। १॥ आत्मसमेन सह युद्धे यद्भवति तदाह समस्य समेन सह विग्रहे निश्चितं मरणं जये च सन्देहः, आमं हि पात्रमामेनाभिहतमुभयतः क्षयं करोति ॥ ६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy