SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३६० नीतिवाक्यामृते यदि स्यात्प्राञ्जलं कर्म प्राप्तिर्योग्यनृणां तथा । तथा चाप्रतिपक्षत्वं विजिगीषोरिमे गुणाः ॥ १॥ अथ येन सह सन्धिः कार्यस्तमाहपराक्रमकर्कशः प्रवीरानीकश्चेद्धीनः सन्धाय साधूपचरितव्यः ॥ २ ॥ टीका-यदा पराक्रमकर्कशः शौर्यनिष्ठुरः शत्रुर्भवति । तथा प्रवीरानिकश्च यदा. भवति । एवमुपचरितव्य उपचारेण संयुक्तः कार्यः । तथा च शुक्रः यदा स्याद्वीर्यवान् शत्रुः श्रेष्ठसैन्यसमन्वितः। आत्मानं बलहीनं च तदा तस्योपचर्यते ॥१॥ अथ यादृशं तेजः पराक्रमाढयं भवति तदाहदुःखामर्षजं तेजो विक्रमयति ।। ६३ ॥ टीकातथा च-- दुःखामर्षोद्भवं तेजो यत्पुंसां सम्प्रजायते । तच्छचं समरे हत्वा ततश्चैव निवर्तते ॥१॥ अथावार्यो वीर्यवेगो यथा भवति तथाहस्वजीविते हि रोगस्यावार्यों भवति वीर्यवेगः ॥ ६४ ॥ टीका-यस्य पुरुषस्य जीविते रोगो भवति प्रभूतकाले जीवितव्ये बाञ्छा भवति तस्यावार्यस्य असंयतावार्थ (१) वीर्यवेगो भवति न चिरं जीवितुं वाञ्छमानस्य । तथा च नारद: १ दुःखजनितादामर्षात् जातं तेजः विक्रमं कारयति अतः प्रवीरानिकः शत्रुः कदाचिद्धीनः स्यान्न तेन सह निबन्धेन युद्धं कार्य अपि तु सन्धिरेव कर्तव्या इत्यर्थः । व्याख्यास्य छिन्ना "दु:खामर्ष तेजो" इयन्मात्र एव पाठः पुस्तकेऽवशिष्टं तु मुद्रितपुस्तकात्संयोजितं टिप्पणं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy