SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३५९ टीका-तप्तलोहं यद्भवति तत्तप्तेन लोहेन सह सन्धिं गच्छति तथा द्वाभ्यामपि भूपाभ्यां कुपिताभ्यां संधानं भवति। तथा च शुक्रः द्वाभ्यामपि हि तप्ताभ्यां लोहाभ्यां च यथा भवेत् । भूमिपानां च विज्ञेयस्तथा सन्धिः परस्परं ॥१॥ अथापराद्धस्य शत्रोर्यत्कर्तव्यं तदाह-- तेजो हि सन्धाकारणं नापराधस्य क्षान्तिरुपेक्षा वा ॥५९॥ टीका-सापराधस्य शत्रोरुपरि क्षान्तिर्न कर्तव्या, उपेक्षा वा न कर्तव्या । गतार्थमेतत् । अथ यादृशो राजा यादृशेन विग्रहं करोति तमाहउपचीयमानो घटेनेवाश्मा हीनेन विग्रहं कुर्यात् ॥ ६० ॥ टीका-विग्रहं कुर्यात् । कोऽसौ ? विजिगीषुः । किंविशिष्टः ? उपर्चायमानः शक्तियुक्तः । तेनापि सह युद्धं कुर्यात् घटेनापि कुम्भेनापि, कोऽसौ ? अश्मा पाषाणः लघुरपि किल गुरुर्भवति । अश्मना पाषाणेन लघुनापि शक्तेः सकाशाद्भिद्यते । तथा राजाप्युपचीयमानः सन् गुरुमपि शत्रु व्यापादनसमर्थः । तथा च जैमिनिः-- यदि स्याच्छक्तिसंयुक्तो लघुः शत्रोश्च भूपतिः। तदा हन्ति परं शत्रु यदि स्यादतिपुष्कलम् ॥१॥ अथ विजिगीषोर्लक्षणमाह दैवानुलोम्यं पुण्यपुरुषोऽपचयोप्रतिपक्षता च विजिगीषोरुदयः ॥ ६१ ॥ ___टीका-यद्येतानि लक्षणानि विजिगीषोर्भवन्ति तदास्य सोऽभ्युदयः । प्रथमं तावदैवानुलोन्यं दैवं प्राक्तनं कर्म तस्यानुलोम्यं प्राञ्जलता । तथा पुण्यपुरुषोपचय उत्तमपुरुषप्राप्तिः । तथाप्रतिपक्षताऽविवादो वादिनं । तथा च गुरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy