SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३५८ नीतिवाक्यामृते दीर्घप्रयाणोपहतं बलं न कुर्यात्स तथाविधमनायासेन भवति परेषां साध्यं ॥ ५२ ॥ टीका-भूभुजा परराष्ट्रप्रविष्टेन दीर्घप्रयाणकं न दातव्यं । यतो दीर्घप्रयाणोपहतं बलमनायासेन सुखेन साध्यं भवति । केषां ? परेषां शत्रूणां । अथ भूपतेराकृष्टिमंत्र उत्कृष्टसभाया भवति तदाहन दायादादपरः परबलस्याकर्षणमंत्रोऽस्ति ॥ ५३॥ टीका-दायादागोत्रिणः सकाशात् अपरो द्वितीयः कश्चित् परबलस्याकर्षणमंत्रो नास्ति [नास्ति] न विद्यते । कोऽसौ ? मंत्रोऽभिचारलक्षणः । कस्मिन् विषये ? परबलस्याकर्षणे शत्रुसैन्यनिषूदने । तथा च शुक्रः न दायदात्परो वैरी विद्यतेऽत्र कथंचन । अभिचारकमंत्रश्च शत्रुसैन्ये निषूदने ॥१॥ यस्याभिमुखं गच्छेत्तस्यावश्यं दायादानुत्थापयेत् ॥ ५४ ।। कण्टकेन कण्टकमिव परेण परमुद्धरेत् ॥ ५५ ॥ विल्वेन हि विल्वं हन्यमानमुभयथाप्यात्मनो लाभाय ॥५६॥ टीका-सर्व गतार्थम् । अथात्यन्तापराधे कृते यत्कर्तव्यं तदाहयावत्परेणापकृतं तावतोऽधिकमयकृत्य सन्धि कुर्यात् ॥५७।। टीका-यावन्मानं परेण शत्रुणापराद्धं तावन्मानं तस्याधिकमपकृत्य विरुद्धं कृत्वा ततः स्नेहेन सन्धानं कुर्यात् । तथा च गौतमः-- यावन्मात्रोऽपराधश्च शत्रुणा हि कृतो भवेत् । तावत्तस्याधिकं कृत्वा सन्धिः कार्यों बलान्वितैः ॥१॥ अथ द्वाभ्यामपि यथा भवति तदाहनातप्तं लोहं लोहेन सन्धत्ते ॥ ५८ ॥ १ तथा च शुक्र इति श्लोकश्चेति द्विलिखितः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy