SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः। ३५७ टीका-कथ्यते । आभ्यां संयोगेन नीतिशास्त्रं कथ्यते । तथा च शुक्रः -- स्वमण्डलस्य रक्षाय यत्तंत्रं परिकीर्तितं । परदेशस्य संप्राप्त्या अवापो नयलक्षणम् ॥ १॥ अथ विजिगीषोः स्वरूपमाहबहूनेको न गृह्णीयात् सदोपि सर्पो व्यापाद्यत एव पिपीलिकाभिः ॥४८॥ टीका-न गृह्णीयात् न योधयेत् । कोसौ ? एकः । कान् ? बहून् । केन दृष्टान्तेन ? यत: सदर्पोऽपि सर्पो व्यापाद्यते एव पिपीलिकाभिः। तथा च नारदः एकाकिना न योद्धव्यं बहुभिः सह दुर्बलैः। वीर्याढ्यैर्नापि हन्येत यथा सर्पः पिपीलिकैः ॥१॥ अशोधितायां परभूमौ न प्रविशेन्निर्गच्छेद्वा ॥ ४९ ॥ टीका—गतार्थमेतत् । अथ विग्रहकांले भूभुजा यत्कर्तव्यं तदाहविग्रहकाले परस्मादागतं न किंचिदपि गृह्णीयात् गृहीत्वा न संवासयेदन्यत्र तद्दायादेभ्यः, श्रूयते हि निजस्वामिना सह कूटकलहं विधायावाप्तविश्वासः कृकलासो नामानीकपतिरात्मविपक्षं विरूपाक्षं जघानेति ॥ ५० ॥ टीका-एतद्वृत्तातं द्वाभ्यामपि बृहत्कथायां ज्ञातव्यं । अथ भूभुजा भूयोऽपि यतत्कर्तव्यं तदाहबलमपीडयन्परानभिषणयेत् ॥ ५१ ॥ टीका--आत्मीयं बलमपीडयन् सुखाढयं कुर्वन् परान् शत्रून् अभिषेणयेत् सेनया ( सह ) तद्देशे विग्रहं कर्तुं यायात् । अथ भूभुजा शत्रूणामुपरि गच्छता यन्न कर्तव्यं तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy