SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५६ नीतिवाक्यामृते उत्पाटितदंष्ट्रो भुजंगो रज्जुरिव ॥ ४१ ॥ टीका-यथा उत्पाटितदंष्ट्रो भुजंगो सर्पो रज्जुरिव भवति तथा शत्रुरपि हृतार्थो गतपरिवारो भवति । तथा च नारद:__ दंष्ट्राविरहितः सर्पो भग्नशृंगोऽथवा वृषः। तथा वैरी परिशेयो यस्य नार्थो न सेवकाः॥१॥ अथ भूयोऽप्यङ्गारव्याजेन गतश्रीकस्य शत्रोः स्वरूपमाहप्रतिहतप्रतापोऽङ्गारः संपतितोऽपि किं कुर्यात् ॥ ४२ ॥ टीका-यथाङ्गारः प्रतिहतप्रतापो भस्मविशेषो भवति तदा शरीरोपरिपतितः किं करोति, एवं शत्रुरपि गतश्रीकोऽङ्गारसदृशो भवति । अथ शत्रोर्मधुरवचनस्य यत्कर्तव्यं तदाहविद्विषां चाटुकारं न बहु मन्येत ॥ ४३ ॥ टीका---गतार्थमेतत् । अथ शत्रोः खड्गव्याजेन मधुरवचनस्य स्वरूपमाहजिव्हया लिहन खड्गो मारयत्येव ॥४४॥ टीका--खड्गो निस्त्रिंशो जिव्हया धार्यमाण: कोमलयापि मारयत्येव तथा शत्रुरपि मधुरवचनानि वदन् मारयत्येव । अथ नीतिशास्त्रास्य लक्षणमाहतंत्रापायौ नीतिशास्त्रम् ॥ ४५ ॥ टीका-मण्डलपालनाभियोगस्तंत्रं अवापश्च नीतिरुच्यते । तत्र तंत्रलक्षणमाह --- खमण्डलपालनाभियोगस्तंत्रम् ॥ ४६॥ टीका-यत्स्वमण्डलपरिपालनं क्रियते तत्तंत्रं यतः स्नेहेन हस्त्यश्वादिकं तंत्रं भवति । तथा परमण्डलावाप्त्यभियोगोऽवापः ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy