________________
युद्धसमुद्देशः ।
३५५
करोति। कं, ? मत्तवारणं मदोन्मत्तहस्तिनं । कः ? तृणसंघातस्तृणसमूहः । तथा च विष्णुशर्मा
बहूनामप्यसाराणां समवायो बलाधिकः।
तृणैरावेष्टितो रज्जुर्यथा नागोऽपि बध्यते ॥१॥ अथ भूयोऽपि संघातमाहात्म्यमाहसंहतैर्बिसतन्तुभिर्दिग्गजोऽपि नियम्यते ॥ ३८ ॥
टीका-नियम्यते वशीक्रियते । कोऽसौ ? दिग्गजोऽपि दिमागोऽपि। कैः ? बिसतन्तुभिर्मणालसूत्रैः सूक्ष्मतरैरपि । एवं राजापि बहुपरिवारकापुरुषैबहुभिर्युक्तोऽपि बलाढयैर्न वशीक्रियतेऽरिभिः । तथा च हारीतः
अपि सूक्ष्मतरै त्यैर्बहुभिर्वश्यमानयेत् ।
अपि वीर्योत्कटं शत्रु पद्मसूत्रैर्यथा गजम् ॥१॥ अथ दण्डसाध्यस्य रिपोर्यः सामादीनुपायान् करोति तस्य यद्भवति तदाह
दण्डसाध्ये रिपावुपायान्तरमन्नावाहुतिप्रदानमिव ॥ ३९ ॥ टीका—यो राजा दण्डसाध्ये युद्धसाध्ये शत्रौ उपायान्तरं करोति । तत्तस्योपायान्तरं किंविशिष्टं ? अग्नौ घृताहुतिप्रदानमिव । यथा वैश्वानरो वृताहुत्या ज्वालां मुंचति तथा शत्रुरपि क्रोधमुद्गिरति । तथा च माघः
सामवादाः सकोपस्य तस्य प्रत्युतदीपकाः।
प्रतप्तस्येव सहसा सर्पिषस्तोयविन्दवः॥१॥ अथौषधव्याजेन यथा शत्रोरुपायान्तरं न क्रियते तदाहयन्त्रशस्त्रानिक्षारप्रतीकारे व्याधौ किं नामान्यौषधं कुर्यात् ॥४०॥
टीका-यदाऽसाध्यो व्याधिर्भवति तत्र वैद्यस्य ( यंत्र ) शस्त्रविशेषं, । शस्त्रमायुधं ।...
.......। ..............सामर्थ्य सर्पद्वारेणाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org