________________
३५४
नीतिवाक्यामृते
भवति, वनगज इवारण्यहस्तीव । किंविशिष्टो वनगजः ? विशीर्णयूथो भ्रष्टयूथ एकाकीत्यर्थः । तथा च नारद:
उच्चाटितोऽरिभी राजा परदेशसमागतः ।
वनहस्तीव साध्यः स्यात्परिग्रहः विवर्जितः ॥१॥ अथ जलव्यालदर्शनेन विनाशपरिग्रहभूतस्य यद्भवति तदाह-- विनिःस्रावितजले सरसि विषमोऽपि ग्राहो जलव्याल. वत् ॥ ३५ ॥ ____टीका-यथा विनिःस्रावितजले निःसारितोदके सरसि हदे पुष्टोऽपि ग्राहो जलचरविशेषो जलव्यालसदृशो जलसर्पतुल्यो निर्विषो भवति तथा राजापि शून्यराष्ट्रकृतो गतदर्पो भवति । तथा च रैभ्यः
सरसः सलिले नष्टे यथा ग्राहस्तुलां व्रजेत् ।
जलसर्पस्य तद्वच्च स्थानहीनो नृपो भवेत् ॥१॥ अथ भूयोऽपि सिंहदृष्टान्तद्वारेण स्थानभ्रष्टस्य नृपस्य स्वरूपमाह--- वनविनिर्गतः सिंहोऽपि शृगालायते ॥ ३६ ॥
टीका-यदा वनान्निर्गच्छति सिंहस्तदा शृगालायते शृगालसमो नष्टवीर्यो भवति तदा राजा यदा स्थानभृष्टो भवति तदा नष्टवीर्यः स्यात् । तथा च शुक्रः--
शृगालतां समभ्येति यथा सिंहो वनच्युतः।
स्थानभ्रष्टो नृपोऽप्येवं लघुतामेति सर्वतः ॥ १॥ अथ संघातस्य माहात्म्यमाह
नास्ति संघातस्य निःसारता किन्न स्खलयति मत्तमपि वारणं कृथिततृणसंघातः ॥ ३७॥
टीका-नास्ति न विद्यते। काऽसौ ? निःसारता दुर्बलत्वं । कस्य ? संघातस्य । केन दृष्टान्तेन ? यतः किन्न स्खलयति किन्न गतिभंगान्वितं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org