SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । बलाढ्यः प्रार्थितः साम्ना यो न यच्छति दुर्बलः । किंचिद्वस्तु समं प्राणैस्तत्तस्यासौ हरेद्ध्रुवम् ॥ १ ॥ अथ बलवता यैरुपायैः प्रदातव्यं तानाह - बलवति सीमाधिपेऽर्थं प्रयच्छन् विवाहोत्सवगृहगमनादिमिषेण प्रयच्छेत् || ३२ ॥ टीका — सीमाधिपस्य बलवतो दुर्बलेन मिषान्तरेण विवाहोत्सवव्याजेन गृहगमनकारणेन उपचारः कर्तव्यो येन न तं सर्व परिहरति । तथा च शुक्रः p माह ३५३ वृद्धयुत्सव गृहातिथ्यव्याजैर्देयं बलाधिके । सीमाधिपे सदैवात्र रक्षार्थं स्वधनस्य च ॥ १ ॥ अथ बलवति सीमाधिपेंडत्यागेऽस्य यद्भवति तदाह-आमिषमर्थमप्रयच्छतोऽनवधिः स्यान्निबन्धः शासनम् ॥ ३३ ॥ टीका किचिन्मिषान्तरं कृत्वा बलवति सीमाधिपे यो नोपचारं करोति दुर्बलस्तस्यानुभवेत् । कोऽसौ ? निबन्धः । किंविशिष्टो निबन्ध ? अनवधिः न विद्यतेऽवधिः परिमाणं यस्य तस्माद्बलवत उपचार: कर्तव्यः । तथा च गुरुः सीमाधिपे बलाढ्ये तु यो न यच्छति किंचन । व्याजं कृत्वा स तस्याथ संख्याहीनं समाचरेत् ॥ १ ॥ कृतसंघातविघातोऽरिभिर्भूयः परदेशादागतो यादृग्भवति तत्स्वरूप कृतसंघातविघातोऽरिभिर्विशीर्णयूथो गज इव कस्य न भवति साध्यः || ३४ ॥ कृतसंघातविघातोऽरिभिर्विहित सैन्यविनाशः टीका—यो राजा शत्रुभिः कस्य साध्यो वशो न भवति, अपि तु नीचानामपि साध्यो नीति० - २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy