SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५२ नीतिवाक्यामृते को नाम कृतधीः शुल्कभयाद्भाण्डं परित्यजति ॥ २८ ॥ __टीका-नाम अहो कः पुरुषः कृतधीः बुद्धिमान् शुल्कभयाद्दानभीतेः भाण्डं वर्षरं (सर्व) परित्यजति । यो नष्टबुद्धिर्भवति तस्य (स) एवं करोति नो विज्ञः । तथा च कौशिकः यस्य बुद्धिर्भवेत्काचित् स्वल्पापि हृदये स्थिता । न भाण्डं त्यजेत् सारं स्वल्पदानकृतात्भयात् ॥ १॥ अथ व्ययस्य स्वरूपमाहस किं व्ययो यो महान्तमर्थ रक्षति ॥ २९ ॥ टीका–स किं व्ययः कथ्यते येन कृतेन महान् प्रभूतोऽर्थो रक्ष्यते उपकारद्वारेण यो बलवतां क्रियते । शेषार्थस्य रक्षार्थमिति । तथा च शैनकः उपचारपरित्राणादत्वा वित्तं सुबुद्धयः । बलिनो रक्षयन्तिस्म यच्छेषं गृहसंस्थितम् ॥ १ ॥ अथ सम्पूर्णविभवस्य यद्भवति तदाह- . पूर्णसरः सलिलस्य हि न परीवाहादपरोऽस्ति रक्षणोपायः ॥ ३० ॥ टीका-यथा पूर्णसरो जलस्य परीवाहात् प्रणालादपरोऽस्ति न रक्षणोपायः तथा सम्पूर्णविभवस्य गृहस्थस्य त्यागादपरो नस्ति वित्तरक्षणोपायः । तथा च विष्णुशर्मा उपार्जितानां वित्तानां त्याग एव हि रक्षणं । तडागोदरसंस्थानं परीवाह इवाम्भसां ॥१॥ अथ बलवता साम्ना प्रार्थितो यो न ददाति तस्य यद्भवति तदाहअप्रयच्छतो बलवान् प्राणैः सहाथ गृह्णाति ॥ ३१ ॥ टीका-यो बलवता प्रार्थितः साम्ना न प्रयच्छति किंचित्पदार्थ तत्तस्य प्राणैः सहाथै गृह्णाति । तथा च भागुरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy