Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
प्रकीर्णक-समुद्देशः ।
चित्रगतमपि राजानं नावमन्येत क्षात्रं हि तेजो महतीसत्पुरुपदेवतास्वरूपेण तिष्ठति ॥ ६६ ॥
टीका -- यदि चित्रगतोऽपि ( राजा ) दृश्यते तदपि नावमन्येत नावज्ञया द्रष्टव्यो हीनकोशोऽयं परिग्रहरहितं: । यतः क्षात्रं तेज: पुरुषशरीरदेवतास्वरूपेण तिष्ठति । तथा च गर्ग:
४०३
नावमन्येत भूपालं हीनकोशं सुदुर्बलं ।
क्षात्रं तेजो यतस्तस्य देवरूपं तनौ वसेत् ॥ १ ॥ अथ कार्यारम्भेण कृतेन यः पर्यालोचः क्रियते तस्य स्वरूपमाह - कार्यमारभ्य पर्यालोचः शिरो मुण्डयित्वा नक्षत्रप्रश्न इव ॥ ६७॥ टीका -- कार्य प्रयोजनमारम्य पश्चात्तस्य विषयेः पर्यालोचः क्रियते । स किंविशिष्ट इव प्रतिभांति नक्षत्रप्रश्न इव शिरोमुण्डने कृते । तस्मा-दनारम्भेण कृत्यालोचनं क्रियते । तथा च नारदः
अनारम्भेण कृत्यानामालोचः क्रियते पुरा । आरम्भे तु कृते पश्चात्पर्यालोचो वृथा हि सः ॥ १ ॥ शिरसो मुण्डने यद्वत् कृते मूर्खतमैर्नरैः ।
नक्षत्र एव प्रश्नात्र ? पर्यालोचस्तथैव सः ॥ २ ॥ अथ पुरुषाणां यथा ऋणशेषे कृते भयं भवति तदाह-ऋण शेषाद्रिपुशेषादिवावश्यं भवत्यायत्यां भयं ॥ ६८ ॥ टीका -- एताँश्चतुरः पदार्थान् यः सावशेषान्करोति तस्य भयं भवति । ऋणशेषं तावत् तृणशेषं तावत् रिपुशेषं तावत्, अग्निशेषं तावत् । तस्मादेतानि सर्वाणि शेषतां न नयेत् तथा च शुक्रः
अग्निशेषं रिपोः शेषं तृणार्णाभ्यां च शेषकं । पुनः पुनः प्रवर्धेत तस्मान्निःशेषतां नयेत् ॥ १ ॥ अथ नवसेवकस्य स्वरूपमाह -
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
नवसेवकः को नाम न भवति विनीतः ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466