Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
३९२
नीतिवाक्यामृते
अथ भूपतीनां स्वरूपमाहपर्वता इव राजानो दूरतः सुन्दरालोकाः ॥३३॥ टीका-पर्वता इव राजानः । किंविशिष्टाः ? सुन्दरालोकाः सुन्दरो मनोहर आलोको दर्शनं येषां ते तथा । छत्रपूजाचामरहस्त्यश्वरथयायाः पापात्मीयं गम्यते तावद्वा स्थानकठोरववस्वनैर्भय॑माना (१) प्राप्यते यथा पर्वता दूरात्प्रान्ततायाः मनोहरा दृश्यन्ते समीपगते धवखदिरथोहरपाषाणैर्दुरारोहा भवन्ति तस्माद्भपानां पर्वतानां च समीपगानां च ( न ) गच्छेत् । तथा च गौतमः
दुरारोहा हि राजानः पर्वता इव चोन्नताः
दृश्यन्ते दूरतो रम्याः समीपस्थाश्च कष्टदाः ॥१॥ अथ दूरस्थदेशश्रवणस्वरूपमाहवार्तारमणीयः सर्वोऽपि देशः ॥ ३४ ॥
टीका-यः कश्चिद्देशः श्रूयते स वार्ताप्रियो यथा कथितः। एवं ज्ञात्वा स्वदेश परित्यज्य परदेशं बहुगुणं श्रुत्वा न गम्यत इति । तथा च रैभ्यः
दुर्भिक्षाढ्येऽपि दुःस्थेऽपि दूराजसहितोऽपि च । स्वदेशं च परित्यज्य नान्यस्मिंश्चिच्यु(च्छु)भे व्रजेत् ? ॥१॥ अथ दुःस्थस्य बान्धवरहितस्य परभूमिः समृद्धापि यादृग्भवति तदाह---
अधनस्याबान्धवस्य च जनस्य मनुष्यवत्यपि भूमिभवति महाटवी ॥ ३५॥
टीका—यो जनोऽधनो भवति तथा बान्धवरहितश्च तस्य मनुष्यवत्यपि प्रभूतमनुष्यापि भूमिमहाटवी महारण्यसदृशी । तथा च रैभ्यः
निर्धनस्य मनुष्यस्य बान्धवै रहितस्य च । प्रभूतैरपि संकीर्णा जनैर्भूमिमहाटवी ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466