Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 437
________________ ४०० नीतिवाक्यामृते टीका--नीचो निकृष्ट आत्मानं उत्कर्षत्वं आत्मनो महत्त्वं मन्येत जानाति । केन कृत्वा ? परापवादेन परेषां योऽसावपवादः पृष्टिमांसभक्षणं, तेन एतज्जानाति मया सदृशः कोऽप्यत्र नास्ति । तथा च जैमिनिः आत्मानं मन्यते भद्रं नीचः परापवादतः। न जानाति परे लोके पातं नरकसंभवम् ॥१॥ अथ मेरुद्वारेण पुरुषस्य महत्त्वमाहन खलु परमाणोरल्पत्वेन महान् मेरुः किन्तु स्वगुणेन ॥५७॥ टीका-योऽसौ मेरुः पर्वतः स कथं महत्वमागतः प्राप्तः स्वतुंगगुणेन न खलु निश्चयेन परमाणोरल्पत्वेनापि । तथा च गुरु: नीचेन कर्मणा मेरुर्न महत्त्वमुपागतः। ___ स्वभावनियतिस्तस्य यथा याति महत्त्वतां ॥१॥ अथ महापुरुषाः कलुषचित्ता यथा भवन्ति तथाहन खलु निर्निमित्तं महान्तो भवंति कलुषितमनीषाः ॥५८॥ टीका—ये महान्तो भवन्ति महापुरुषा भवन्ति ते निर्निमित्तं प्रयोजनबाह्यं कलुषितमनीषा मलिनबुद्धयो न भवन्ति । तथा च भारद्वाजः न भवन्ति महात्मानो निनिमित्तं क्रुधान्विताः । निमित्तेऽपि संजाते यथान्ये दुर्जना जनाः ॥१॥ अथ वह्निद्वारेण पुरुषस्य दृष्टान्तमाहस वन्हेः प्रभावो यत्प्रकृत्या शीतलमपि जलं भवत्युष्णं ॥५९॥ टीका—यत्प्रकृत्या स्वभावेन शीतमपि जलमत्युष्णतां व्रजति । स स्वभावो शक्तिः वह्नेः । एवं कापुरुषोऽपि शूरपुरुषाश्रयः शूरो भवति, शूरोऽपि च कापुरुषाश्रयः कातरो भवतीति । तथा च वल्लभदेव:--.. Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466