Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
प्रकीर्णक-समुद्देशः ।
३९९
तस्य किमसाध्यं नाम यो महामुनिरिव सर्वान्नीनः सर्वक्लेशसहः सर्वत्र सुखशायी च ॥ ५३ ॥
टीका - यः पुमान् सर्वान्नीनो भवति सर्वान्नभक्षणरुचिर्भवति उत्तममध्यमाद्यन्नानि भक्षितानि परिणामं गच्छन्ति । तथा सर्वक्लेशसहः शीतातपाद्येषु क्लेशेषु सहः समर्थो यः तथा सुखशायी कण्टकानामुपरि यस्य निद्रामागच्छति तस्य शरीरपुष्टिर्भवति, किमपि कर्मासाध्यं न भवति । क इव ? मुनिरिव मुनिरपीदृग्विधः । तथा च गुरुः
नारुचिः क्वचिद्धान्ये तदन्तेऽपि कथंचन ।
निद्रां कुशं हि तस्यापि स समर्थः सदा भवेत् ॥ १ ॥ अथ लक्ष्मीस्वरूपमाह--- स्त्रीप्रीतिरिव कस्य नामेयं स्थिरा लक्ष्मीः ॥ ५४ ॥ टीका —नामाहो कस्य पुरुषस्य स्थिरेयं लक्ष्मीरपि तु न कस्यापि । केव ? स्त्रीप्रीतिरिव ।
यथा.. .. स्त्रीप्रीतिरस्थिरा तद्वदेव हि । यस्मात्तस्मात्प्रकर्तव्यो जयस्वस्याः ? शुभैषिभिः ॥ १ ॥ अथ राज्ञां लोको यथा वल्लभो भवति तदाहपरपैशून्योपायेन राज्ञां वल्लभो लोकः ।। ५५ ।।
टीका- राज्ञां भूपतीनां वल्लभो भवति, केनोपायेन भवति परपैशून्योपायेन बाहुल्यतया यः परेषां पैशून्यानि करोति राज्ञां पुरतः सकाशात, स कातरोऽकुलीनोऽपि प्रसादान्वितो भवति । तथा च हारीतः -- पैशून्ये निरतो लोको राज्ञां भवति वल्लभः । कातरोऽप्पकुलीनोऽपि बहुदोषान्वितोऽपि च ॥ १ ॥
अथ नीच आत्मानं येन कर्मणा बहुमन्येत तदाह
नीच महत्त्वमात्मनो मन्यते परस्य कृतेनापवादेन ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466