SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक-समुद्देशः । ३९९ तस्य किमसाध्यं नाम यो महामुनिरिव सर्वान्नीनः सर्वक्लेशसहः सर्वत्र सुखशायी च ॥ ५३ ॥ टीका - यः पुमान् सर्वान्नीनो भवति सर्वान्नभक्षणरुचिर्भवति उत्तममध्यमाद्यन्नानि भक्षितानि परिणामं गच्छन्ति । तथा सर्वक्लेशसहः शीतातपाद्येषु क्लेशेषु सहः समर्थो यः तथा सुखशायी कण्टकानामुपरि यस्य निद्रामागच्छति तस्य शरीरपुष्टिर्भवति, किमपि कर्मासाध्यं न भवति । क इव ? मुनिरिव मुनिरपीदृग्विधः । तथा च गुरुः नारुचिः क्वचिद्धान्ये तदन्तेऽपि कथंचन । निद्रां कुशं हि तस्यापि स समर्थः सदा भवेत् ॥ १ ॥ अथ लक्ष्मीस्वरूपमाह--- स्त्रीप्रीतिरिव कस्य नामेयं स्थिरा लक्ष्मीः ॥ ५४ ॥ टीका —नामाहो कस्य पुरुषस्य स्थिरेयं लक्ष्मीरपि तु न कस्यापि । केव ? स्त्रीप्रीतिरिव । यथा.. .. स्त्रीप्रीतिरस्थिरा तद्वदेव हि । यस्मात्तस्मात्प्रकर्तव्यो जयस्वस्याः ? शुभैषिभिः ॥ १ ॥ अथ राज्ञां लोको यथा वल्लभो भवति तदाहपरपैशून्योपायेन राज्ञां वल्लभो लोकः ।। ५५ ।। टीका- राज्ञां भूपतीनां वल्लभो भवति, केनोपायेन भवति परपैशून्योपायेन बाहुल्यतया यः परेषां पैशून्यानि करोति राज्ञां पुरतः सकाशात, स कातरोऽकुलीनोऽपि प्रसादान्वितो भवति । तथा च हारीतः -- पैशून्ये निरतो लोको राज्ञां भवति वल्लभः । कातरोऽप्पकुलीनोऽपि बहुदोषान्वितोऽपि च ॥ १ ॥ अथ नीच आत्मानं येन कर्मणा बहुमन्येत तदाह नीच महत्त्वमात्मनो मन्यते परस्य कृतेनापवादेन ॥ ५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy