________________
४००
नीतिवाक्यामृते
टीका--नीचो निकृष्ट आत्मानं उत्कर्षत्वं आत्मनो महत्त्वं मन्येत जानाति । केन कृत्वा ? परापवादेन परेषां योऽसावपवादः पृष्टिमांसभक्षणं, तेन एतज्जानाति मया सदृशः कोऽप्यत्र नास्ति । तथा च जैमिनिः
आत्मानं मन्यते भद्रं नीचः परापवादतः।
न जानाति परे लोके पातं नरकसंभवम् ॥१॥ अथ मेरुद्वारेण पुरुषस्य महत्त्वमाहन खलु परमाणोरल्पत्वेन महान् मेरुः किन्तु स्वगुणेन ॥५७॥
टीका-योऽसौ मेरुः पर्वतः स कथं महत्वमागतः प्राप्तः स्वतुंगगुणेन न खलु निश्चयेन परमाणोरल्पत्वेनापि । तथा च गुरु:
नीचेन कर्मणा मेरुर्न महत्त्वमुपागतः। ___ स्वभावनियतिस्तस्य यथा याति महत्त्वतां ॥१॥ अथ महापुरुषाः कलुषचित्ता यथा भवन्ति तथाहन खलु निर्निमित्तं महान्तो भवंति कलुषितमनीषाः ॥५८॥ टीका—ये महान्तो भवन्ति महापुरुषा भवन्ति ते निर्निमित्तं प्रयोजनबाह्यं कलुषितमनीषा मलिनबुद्धयो न भवन्ति । तथा च भारद्वाजः
न भवन्ति महात्मानो निनिमित्तं क्रुधान्विताः ।
निमित्तेऽपि संजाते यथान्ये दुर्जना जनाः ॥१॥ अथ वह्निद्वारेण पुरुषस्य दृष्टान्तमाहस वन्हेः प्रभावो यत्प्रकृत्या शीतलमपि जलं भवत्युष्णं ॥५९॥
टीका—यत्प्रकृत्या स्वभावेन शीतमपि जलमत्युष्णतां व्रजति । स स्वभावो शक्तिः वह्नेः । एवं कापुरुषोऽपि शूरपुरुषाश्रयः शूरो भवति, शूरोऽपि च कापुरुषाश्रयः कातरो भवतीति । तथा च वल्लभदेव:--..
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org