SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक-समुद्देशः । ४०१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं लब्ध्वा भवन्ति योग्या अयोग्याश्च ॥१॥ अथ कार्यार्थिना पुरुषेण यत्कर्तव्यं तदाहसुचिरस्थायिनं कार्यार्थी वा साधूपचरेत् ॥ ६० ॥ टीका-यः पुरुषः कार्यार्थी भवति स उपचरेत्सेवेत । कं? सुचिरस्थायिनं पुरुषं यस्य कदाचिदनत्रस्थितिर्न भवति । कथमुपचरेत् ? साधु यथा भवत्येवं । तथा यशोऽर्थी यो वा भवति स साधु उपचरेत् । तथा च शुक्रः-- कार्यार्थी वा यशोर्थी वा साधु संसेवयेस्थिरं । सर्वात्मना ततः सिद्धिः सर्वदा यत्प्रजायते ॥ १॥ अथ स्थितैः सह पुरुषेण यत्कर्तव्यं तदाहस्थितैः सहार्थोपचारेण व्यवहारं न कुर्यात् ॥ ६१ ॥ टीका-न कुर्यात् न विदधीत । कं ? व्यवहारं । कथं ? साई सह। कैः ? स्थितैः प्रमाणपुरुषैः । केन कृत्वा व्यवहारो न कार्यः ? अर्थोपचारेण । तथा च गुरुः महद्भिः सह नो कुर्याद्वयवहारं नुदुर्बलः । गतस्य गोचरं तस्य न स्यात्प्राप्त्या महान् व्ययः ॥१॥ अथ सत्पुरुषाणां सेवया यद्भवति तदाह सत्पुरुषपुरश्चारितया शुभमशुभं वा कुर्वतो नास्त्यपवादः प्राणव्यापादो वा ॥ ६२ ॥ टीका---सत्पुरुषाणां पुरश्चारितया सेवया विहितया शुभमशुभं वा कुर्वतो पुरुषस्य नापवादो भवति तेषां माहात्म्यात् । तथा प्राणव्यायादः प्राणनाशः तस्मात्सत्पुलवाः सेवनीयाः । तथा च हारीत: महापुरुषसेवायामपराधेऽपि संस्थिते । नापवादो भवेत्युंसां न च प्राणवधस्तथा ॥१॥ नीति०-२६ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy