________________
नीतिवाक्यामृते
अथान्यदपि सत्पुरुषसेवया यद्भवति तदाह
सपदि सम्पदमनुबध्नाति विपच्च विपदं ॥ ६३ ॥
टीका - सपदि तत्क्षणादेव स लक्ष्मीं जनयति तथा विपच्च नाशं नयति विपदं व्यसनमिति । तथा च हारीत: -
४०२
शीघ्रं समान ? नः यो लक्ष्मीर्नाशयेद्व्यसनं महत् । सत्पुरुषे कृता सेवा कालेनापि च नान्यथा ॥ १ ॥ अथ कार्यार्थी पुरुषो यत्करोति तदाह
गोरिव दुग्धार्थी को नाम कार्यार्थी परस्परं विचारयति ॥ ६४ ॥ टीका -- यः पुरुषः कायार्थी भवति स तन्निमित्तं तस्याचारविचारं न करोति । क इव ? गोरिव दुग्धार्थी । यथा दुग्धार्थी धेनोराचारस्य व्यवहारस्य विचारं न करोति । एतदुक्तं भवति गौः किलामेध्यभक्षणं करोति तत्पश्चाद्दुग्धं भवति तत्सर्वो जनो भक्षयाति न विचारं करोति । तथा
च शुक्रः
कार्यार्थी न विचारं च कुरुते च प्रियान्वितः । दुग्धार्थी च यशो धेनोरमेध्यस्य प्रभक्षणात् ॥ १ ॥ अथ ये नात्मानं रञ्जयंति तानाह
शास्त्रविदः स्त्रियश्वानुभूतगुणाः परमात्मानं रज्जयंति ।। ६५ ।। टीका - शास्त्रविदः पंडिता भवन्ति तथा स्त्रियो यदि विलक्षणा भवन्ति ताः परं केवलमात्मानं रञ्जयन्ति । कथंभूताः सन्तः ? अनुभूतगुणाः । शास्त्रविदस्तावदनुभूतगुणा विद्यागुणेनानुभूय सदात्मानं रञ्जयन्ति तेषां सकाशात् तथा स्त्रिय आत्मानं रञ्जयन्ति । तथा च शुक्रः
स्त्रियं वा यदि वा किञ्चि तदनुभूय विचक्षणाः । आत्मानं चापरं वापि रञ्जयन्ति न चान्यथा ॥ १ ॥ अथ भूपतेः यत्कर्तव्यं तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org