SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३९८ नीतिवाक्यामृते Aanand टीका-ऋणी पुरुषो यो धनिकाय न प्रयच्छति अदत्तेन म्रियते स तस्यान्यदेहान्तरे दासभावेन निर्हरति तस्य दासो भवति चतुष्पदो भूत्वा ऋणं प्रयच्छति । तथा च नारद: ऋणं यच्छति नो यस्तु धनिकाय कथंचन । देहान्तरमनुप्राप्तस्तस्य दासत्वमाप्नुयात् ॥१॥ अथ येषामृणं दासत्वं न भवति तानाह-- अन्यत्र यतिब्राह्मणक्षत्रियेभ्यः ।। ५१ ॥ टीका-अन्यत्र मुक्त्वा । कान् ? यतीन् ब्राह्मणान् क्षत्रियान् । एतेषां ऋणं दासत्वं न भवति। यतो यतः सर्वसंगपरित्यागात् पुण्यपापैनलिप्यन्ते । तथा च ब्राह्मणानां अनुग्रहकृतेन यच्छेयो दातुर्भवति अदत्तमृणं । तथा क्षत्रियाणां च ऋणं करग्रहणमिति । तथा च भार्गव:--- __ यतीनां च दासत्वं न विद्यते ऋण परं।। लोके च..................भूपतीनां विशेषतः ॥१॥ अथ पुरुषस्य यथात्मदेहो वैरी भवति तदाह-- तस्यात्मदेह एव वैरी यस्य यथालाभमशनं शयनं च न सहते ॥ ५२ ॥ टीका-यस्य पुरुषस्याशनमभीष्टं भोजनं कृतं न सहते न परिणाम गच्छति, इष्टान्नमपि । तथा यस्य न सहते शयनादिकं । किंविशिष्टं ? यथावत्प्राप्तं यच्छति । नन्वहो तस्यात्मनो देहो निजशरीरमपि वैरी एवं निश्चयेन यतो वैरिणः सकाशात् अपि स्वेच्छया भोजनं कर्तुं न लभ्यते सुशयने निद्रापि कर्तुं न लभ्यते । तथा च जैमिनिः भोजनं यस्य नो याति परिणाम न भक्षितं । निद्रा सुशयने नैति तस्य कायो निजो रिपुः ॥१॥ अथ यस्य पुरुषस्यासाध्यं किमपि न भवति तत्स्वरूपमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy