________________
प्रकीर्णक-समुद्देशः ।
३९७.
अथ तिर्यक्षु यथा वर्तितव्यं तदाहसुष्टु परिचितेष्वपि तिर्यक्षु विश्वासं न गच्छेत् ॥४७॥
टीका-न गच्छेन्न व्रजेत् । किं ? विश्वासं । केषु ? तिर्यक्षु पक्ष्यादिध्वपि। किंविशिष्टेषु ? सुष्ठ अतिशयेन परिचितेष्वपि विश्वासं गतेष्वपि। यतस्तेषामविवेको भवति जनानामहितोऽगुणवानिति । तथा च वल्लुभदेवःसिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः
मीमांसाकृन्तमुन्ममाथ तरसा हस्ती मुनिं जैमिनि । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिंगलं
चाशानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः ॥१॥ अथ मत्तवारणारोहेण यद्भवति तदाहमत्तवारणारोहिणो जीवितव्ये सन्देहो निश्चितश्चापायः॥४८॥ टीका---मत्तवारणे मत्तहस्तिनि य आरोहणं कुरुते तस्य जीवितव्ये सन्देहो भवति यदि जीवति तत्पुनर्निश्चितोऽपायो गात्रभंगो जायत. इति । तथा च गौतमः
यो मोहान्मत्तनागेन्द्रं समारोहति दुर्मतिः।
तस्य जीवितनाशः स्याद्ात्रभंगस्तु निश्चितः ॥१॥ अथात्यर्थ हयविनोदेन यद्भवति तदाहअत्यर्थ हयविनोदोऽङ्गभङ्गमनापाद्य न तिष्ठति ॥ ४९॥ तथा च रैभ्यः
अत्यर्थ कुरुते यस्तु वाजिक्रीडां सकौतुकां ।
गात्रभंगो भवेत्तस्य रैभ्यस्य वचनं यथा ॥१॥ अथ ऋणमप्रयच्छतो धनिकाय ऋणकस्य यद्भवति तदाहऋणमददानो दासकर्मणा निर्हरेत् ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org