________________
३९६
नीतिवाक्यामृते
अथ भत्यापराधे स्वामिनो यद्भवति तदाहभृत्यापराधे स्वामिनो दण्डो यदि भृत्यं न मुञ्चति ॥४४॥ टीका-भृत्यापराधेन कृतेन तत्स्वामिनो दण्डो निपात्यते यदि तं भृत्यं स्वामी न परित्यजति । तथा च गुरु:
यः स्वामी न त्यजेद्धृत्यमपराधे कृते सति ।
तत्तस्य पतितो दण्डो दुष्टभृत्यसमुद्भवः॥१॥ अथ समुद्रदृष्टान्तेन महत्ताया दूषणमाह
अलं महत्तया समुद्रस्य यः लघु शिरसा वह त्यधस्ताच नयति गुरुम् ॥ ४५ ॥
टीका–अलं पर्याप्तं । महत्तया माहात्म्येन गुरुत्वेन । कस्य ? समुद्रस्य । यः किं करोति ? लघु पदार्थ शिरसा वहति सम्मानयुक्तान् करोति । तथा गुरूनतिपरिभवस्थाने नियोजयति । तस्य स्वामित्वेनालं पर्याप्त न क्रियते इत्यर्थः । तथा च विष्णुशर्मा
स्थानेष्वेव नियोज्यन्ते भृत्याश्च निजपुत्रकाः।
न हि चूडामणिं पादे कश्चिदेवात्र संन्यसेत् ॥१॥ अथ रतिमंत्राहारकालेषु यत्कर्तव्यं तदाह- . रतिमंत्राहारकालेषु न कमप्युपसेवेत ।। ४६ ॥ टीका-न उपसेवेत न समीपं गच्छेत् । कमपि ? कतममपि । कस्मिन् काले ? स्त्रीसम्पर्ककाले तथा मंत्रकाले तथाहारकाले भोजनसमये । रतिकालेऽभीष्टोऽपि लज्जया द्वेष्यत्वं नीयते स्वागतं मंत्रं च मंत्रभेदकं करोति । आहारकाले यद्याहारोऽधिको भवति च्छर्दिवी तत्तस्य दृग्दोषः सम्भाव्यते । तथा च शुक्रः
रतिमंत्राशनविधं कुर्वाणो नोपगम्यते । अभीष्टतमश्च लोकोऽपि यतो द्वेषमवामुयात् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org