SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक- समुद्देशः । एते नैव तु दायादा न पिण्डप्रदाः स्मृताः । कानीनः कन्यकापुत्रो मातामहसुतो मतः ॥ ५॥ सहोपनीतः ः सुतया सहोढः संचकीस्तथा । मात्रा पित्रा च विक्रीत आत्मना क्रीत एव वा ॥ ६ ॥ अकृतायां कृतायां वा जातः पौनर्भवः सुतः । आत्मानं यः स्वयं दद्यात् स्वयं दत्तसुतो मतः ॥ ७ ॥ उत्कृष्ट गृह्यते यस्तु स शूद्रः परिकीर्तित। तथा च मनु: दायादाः पिण्डदाश्चाद्याश्चत्वारः परिकीर्तिताः । कथिताश्रपरे ये च न दायादा न पिण्डदाः ॥ १ ॥ अथ तेषां यो विशेषो भवति तमाहदेशकालकुलापत्यस्त्रीसमापेक्षो दायादविभागोऽन्यत्र यतिराजकुलाभ्यां ॥ ४२ ॥ ३९५. टाका - यतिकुले तपस्विकुले तथा राजकुले एतेषां दायादाः स एकः पुत्रः स्थाने नियोजनीयः । तथा च गुरुः देशाचारान्नयाचारौ स्त्रियापेक्षा समन्वितौ ? | देयो दायादभागस्तु तेषां चैवानुरूपतः ॥ १॥ एकस्मै दीयते सर्व विभवं रूपसम्भवं । यः स्यादद्भुतस्तु सर्वेषां तथा च स्यात्समुद्भवः ॥ २ ॥ अथातिपरिचयेन यद्भवति तदाह अतिपरिचयः कस्यावज्ञां न जनयति ॥ ४३ ॥ टीका — अतिपरिचयोऽतिसंसर्गः कस्यावज्ञां न जनयति कस्योपरि नावलेपं कारयति, अपि तु स्वगुरोरपि । तथा च बल्लभदेवः - अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः । लोकः प्रयागवासी कृपे स्नानं समाचरति ॥ १ ॥ १ - नात्ययं श्लोको मनुस्मृतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy