________________
३९४
नीतिवाक्यामृते
____टीका-एतानि कापि घटयति विपदा (2) दैवं प्राक्तनं कर्म शुभं यदानुकुलं भवति न दौःस्थ्यं सम्पदं समृद्धिं जनयति, अक्लेशेनापि सर्व चित्तेप्सितं प्रयच्छति तथा कानने विपदं सबसनं विघटयति । तथा च हारीतः
यस्य स्यात्प्राक्तनं कर्म शुभं मनुजधर्मणः ।
अनुकूलं तदा तस्य सिद्धिं यान्ति समृद्धयः॥१॥ अथ कर्मचांडालानाह-- असूयकः पिशुनः कृतघ्नो दीर्घरोष इति कर्मचाण्डालाः ४०
असूयको निन्दकः । पिशुनो राज्ञः पुरः पैशून्यकारी । कृतघ्नः उपकारं यो न मन्यते । तथा दीर्घरोषः कदाचिदपि यस्य रोषो नाशं न याति । एते चत्वारः कर्मचाण्डालाः। यः पुरुषो जात्या चाण्डालः पंचमः इति । तथा च गर्ग:----
पिशुनो निंदकश्चैव कृतघ्नो दीर्घरोषकृत् ।
एते तु कर्मचाण्डाला जात्या चैव तु पंचमः ॥१॥ अथ पुत्राणां विशेषमाह
औरसः क्षेत्रजो दत्तः कृत्रिमो गूढोत्पन्नोऽपविद्ध एते षट् पुत्रा दायादाः पिण्डदाश्च ।। ४१ ॥ अथ तेषां स्वरूपमाह
औरसो धर्मपत्नीतः संजातः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातः स्वगोत्रणेतरण वा ॥१॥ दद्यान्माता पिता बन्धुः स पुत्रो दत्तसंशितः। कृत्रिमो मोचितो बन्धात् क्षत्रयुद्धेन वा जितः॥२॥ गृहप्रछन्नकोत्पन्नो गूढजस्तु सुतः स्मृतः।
गते मृतेऽथवोत्पन्नः सोऽपविद्धसुतः पंतौ ॥३॥ अथ----
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयं दत्तश्च शोद्रश्च षट् पुत्राधमाः स्मृताः॥४॥ १ उरसः संजातः पुस्तके पाठः । २ पतौ इति सप्तम्यन्तप्रयोगश्चिन्त्यः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org