Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 434
________________ प्रकीर्णक-समुद्देशः । ३९७. अथ तिर्यक्षु यथा वर्तितव्यं तदाहसुष्टु परिचितेष्वपि तिर्यक्षु विश्वासं न गच्छेत् ॥४७॥ टीका-न गच्छेन्न व्रजेत् । किं ? विश्वासं । केषु ? तिर्यक्षु पक्ष्यादिध्वपि। किंविशिष्टेषु ? सुष्ठ अतिशयेन परिचितेष्वपि विश्वासं गतेष्वपि। यतस्तेषामविवेको भवति जनानामहितोऽगुणवानिति । तथा च वल्लुभदेवःसिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः मीमांसाकृन्तमुन्ममाथ तरसा हस्ती मुनिं जैमिनि । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिंगलं चाशानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः ॥१॥ अथ मत्तवारणारोहेण यद्भवति तदाहमत्तवारणारोहिणो जीवितव्ये सन्देहो निश्चितश्चापायः॥४८॥ टीका---मत्तवारणे मत्तहस्तिनि य आरोहणं कुरुते तस्य जीवितव्ये सन्देहो भवति यदि जीवति तत्पुनर्निश्चितोऽपायो गात्रभंगो जायत. इति । तथा च गौतमः यो मोहान्मत्तनागेन्द्रं समारोहति दुर्मतिः। तस्य जीवितनाशः स्याद्ात्रभंगस्तु निश्चितः ॥१॥ अथात्यर्थ हयविनोदेन यद्भवति तदाहअत्यर्थ हयविनोदोऽङ्गभङ्गमनापाद्य न तिष्ठति ॥ ४९॥ तथा च रैभ्यः अत्यर्थ कुरुते यस्तु वाजिक्रीडां सकौतुकां । गात्रभंगो भवेत्तस्य रैभ्यस्य वचनं यथा ॥१॥ अथ ऋणमप्रयच्छतो धनिकाय ऋणकस्य यद्भवति तदाहऋणमददानो दासकर्मणा निर्हरेत् ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466