SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९२ नीतिवाक्यामृते अथ भूपतीनां स्वरूपमाहपर्वता इव राजानो दूरतः सुन्दरालोकाः ॥३३॥ टीका-पर्वता इव राजानः । किंविशिष्टाः ? सुन्दरालोकाः सुन्दरो मनोहर आलोको दर्शनं येषां ते तथा । छत्रपूजाचामरहस्त्यश्वरथयायाः पापात्मीयं गम्यते तावद्वा स्थानकठोरववस्वनैर्भय॑माना (१) प्राप्यते यथा पर्वता दूरात्प्रान्ततायाः मनोहरा दृश्यन्ते समीपगते धवखदिरथोहरपाषाणैर्दुरारोहा भवन्ति तस्माद्भपानां पर्वतानां च समीपगानां च ( न ) गच्छेत् । तथा च गौतमः दुरारोहा हि राजानः पर्वता इव चोन्नताः दृश्यन्ते दूरतो रम्याः समीपस्थाश्च कष्टदाः ॥१॥ अथ दूरस्थदेशश्रवणस्वरूपमाहवार्तारमणीयः सर्वोऽपि देशः ॥ ३४ ॥ टीका-यः कश्चिद्देशः श्रूयते स वार्ताप्रियो यथा कथितः। एवं ज्ञात्वा स्वदेश परित्यज्य परदेशं बहुगुणं श्रुत्वा न गम्यत इति । तथा च रैभ्यः दुर्भिक्षाढ्येऽपि दुःस्थेऽपि दूराजसहितोऽपि च । स्वदेशं च परित्यज्य नान्यस्मिंश्चिच्यु(च्छु)भे व्रजेत् ? ॥१॥ अथ दुःस्थस्य बान्धवरहितस्य परभूमिः समृद्धापि यादृग्भवति तदाह--- अधनस्याबान्धवस्य च जनस्य मनुष्यवत्यपि भूमिभवति महाटवी ॥ ३५॥ टीका—यो जनोऽधनो भवति तथा बान्धवरहितश्च तस्य मनुष्यवत्यपि प्रभूतमनुष्यापि भूमिमहाटवी महारण्यसदृशी । तथा च रैभ्यः निर्धनस्य मनुष्यस्य बान्धवै रहितस्य च । प्रभूतैरपि संकीर्णा जनैर्भूमिमहाटवी ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy