SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक-समुद्देशः। ३९१ लेखमुख्यो महीपालो लेखमुख्यं च चेष्टितं । दूरस्थस्यापि लेखो हि लेखोऽतो नावमन्यते ॥१॥ अथ युद्धस्य लक्षणमाहपुष्पयुद्धमपि नीतिवेदिनो नेच्छन्ति किं पुनः शस्त्रयुद्धं ॥३०॥ टीका-ये नीतिविदो नीतिज्ञाः शुक्रबृहस्पतिप्रभृतयः ते पुष्पयुद्धमपि नेच्छन्ति न वाच्छन्ति । किं तत्पुष्पयुद्धमपि येनाल्हादो भवति । किं पुनः शस्त्रयुद्धं यत्र प्राणत्यागो भवति। तथा च विदुरः पुष्पैरपि न योद्धव्यं किं पुनः निशितैः शरैः । उपायपर्तया? पूर्व तस्माद्युद्धं समाचरेत् ॥ १॥ अथ प्रभोर्लक्षणमाहस प्रभुर्यों बहून् बिभर्ति किमर्जुनतरोः फलसम्पदा या न भवति परेषामुपभोग्या ॥ ३१ ॥ टीका-~~स प्रभुः स्वामी कथ्यते यः स्वल्पवित्तोऽपि बहून् बिभर्ति किमर्जुनतरोवृक्षविशेषस्य फलसम्पदा प्रभूतफलसम्पत्त्या या परेषामन्येषां भोगयोग्या न भवति । तथा च व्यास: स्वल्पवित्तोऽपि यः स्वामी यो बिभर्ति बहून् सदा । प्रभूतफलयुक्तोऽपि सम्पदाप्यर्जुनस्य च ॥ १ ॥ अथ त्यागिनो लक्षणमाहमार्गपादप इव स त्यागी यः सहते सर्वेषां संवाधां ॥३२॥ टीका—स त्यागी कथ्यते पुरुषो यः सर्वेषामभ्यागतानां संबाधां उपरुन्धनं सहते न व्यथां करोति । मार्गपादप इव यथा मार्गपादपः सर्वैरभ्यागतैः पत्रपुष्पफलैरुपचित्यमानोऽपि उपद्रवं सहते तथा त्यागवानपि भोजनशयनादिभिः सम्बाध्यमानोऽप्यभ्यागतैः सहते। तथा च गुरु: यथा मार्गतरुस्तद्वत्सहते य उपद्रवं। अभ्यागतस्य लोकस्य स त्यागी नेतरः स्मृतः॥१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy