________________
३९०
नीतिवाक्यामृते
न रागो न विरागो वा स्त्रीणां कार्यों विचक्षणैः ।
पक्वान्नमिव तापस्य शान्तये स्याच सर्वदा ॥१॥ अथाधर्मस्यापि पुरुषस्य दृष्टान्तद्वारेण माहात्म्यमाहतृणेनापि प्रयोजनमस्ति किं पुनर्न पाणिपादवता मनुष्येण ॥ २८॥ ___टीका-अस्ति विद्यते । किं तत् ? प्रयोजनं । केन ? तृणेनापि निकृष्टेनापि, अथवा यवसेन यदा भोजनावसानं भवति तदा तृणेन मुखशुद्धिर्भवति यदा कर्णकण्डूतिर्भवति तृणेन नश्यति यदा तेनापि प्रयोजनं तदा किं मनुष्येण पाणिपादवता न भवति, अपि तु भवत्येव तस्मादीश्वरेणोत्तमाधममध्यमाः समीपे धार्या नाधमानमुपर्यवज्ञा कर्तव्या। तथा च विष्णुशर्मा--
दन्तस्य निष्कोषणकेन नित्यं
कर्णस्य कण्ड्रयनकेन चापि । तृणेन कार्य भवतीश्वराणां
किं पादयुक्तेन नरेण न स्यात् ॥१॥ अथ लेखस्य सामान्यदत्तस्य विषये यत्कर्तव्यं तदाहन कस्यापि लेखमवमन्येत, लेखप्रधाना हि राजानस्तन्मूलत्वात्सन्धिविग्रहयोः सकलस्य जगद्व्यापारस्य च ॥ २९॥ ___टीका-कस्यापि सामान्यस्यापि भूभुजा लेखो नावमन्तव्यो नावज्ञया द्रष्टव्यः । कस्मात्कारणात् ? लेखप्रधाना हि राजानः हि यस्मात्कारणात् लेखप्रधानो राजानो भवान्त सामान्योऽपि कश्चित्तल्लिखति येन शत्रुचेष्टितं विज्ञायत इति । तथा तन्मूलत्वाल्लेखमूलत्त्वात्सन्धिविग्रहयोः सकलस्य जगद्व्यापारस्य । यत्र लेखप्रचारो भवति तत्र सन्धिविग्रहयोनिश्चयो भवति तथा जगद्व्यापारस्य स्थितिमा॑यते तस्मात्कारणात् कस्यापि लेखो नावमन्तव्यः । तथा च गुरु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org