________________
प्रकीर्णक - समुद्देशः ।
तावन्मात्रो बलो यस्य नान्यत्सैन्यं करोति च । शत्रुभिहन सैन्यः स लक्षयित्वा निपात्यते ॥ १ ॥ अथ कृतार्थस्य स्वरूपमाह
तावत्सर्वः सर्वस्यानुनयवृत्तिपरो यावन्न भवति कृतार्थः ॥ २५॥ टीका — तावत्सर्वः सर्वस्यानुनयपरो विनयपरस्तावदेव यावत्कृतार्थो न भवति, आत्मीयं प्रयोजनं यावन्न सिद्ध्यति प्रयोजनेषु सिद्धेषु कः केन पृष्ट आसीत् । तथा च व्यासः
३८९
सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते । तस्मात्सा देवकार्यस्य किमन्यैः पोषितैः विटैः ॥ १ ॥ अथाशुभेन पुरुषेण यः प्रतीकारः कर्तव्यस्तमाह
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
अशुभस्य कालहरणमेव प्रतीकारः || २६ ॥
टीका - अशुभस्य पदार्थस्याशुभव्यसनलक्षणस्य कः प्रतीकारः किमुपशमनं कालहरणं कालवचनादिभिः पदार्थैर्वञ्चना क्रियत इति ।
तथा च नारदः
Jain Education International
अशुभस्य पदार्थस्य भविष्यस्य प्रशान्तये । कालातिक्रमणं मुक्त्वा प्रतीकारो न विद्यते ॥ १ ॥ अथ स्त्रीभिः पुरुषस्य यद्भवति तदाहपकान्नादिव स्त्रीजनाद्दाहोपशान्तिरेव प्रयोजनं किं तत्र रागविरागाभ्यां ॥। २७ ॥
टीका - स्त्रीजनसकाशात्पुरुषस्य कामाग्नितप्तस्य दाहस्योपशान्तिमैथुनमात्रमेव प्रयोजनं नान्यत्किंचिदपि । कस्मादिव ? पक्कान्नादिव यथा पक्वान्नान्मोदकस्यास्वादनात् क्षणमेकं जिह्वासौख्यं भवति शरीराल्हादो भवति सर्वदा । एवं ज्ञात्वा तासां विषये किं रागविरागाभ्यां द्वावपि न कार्याविति । तथा च गौतम :
For Private & Personal Use Only
www.jainelibrary.org