________________
३८८
नीतिवाक्यामृते
प्राप्नोति सुकुलजोऽप्यकुलजामिति दैवायत्ता तु पुत्रपौत्रसमृद्धिर्भवति, अकाले वा गृहभंगः स्यात् । तथा च गुरु:
विद्यापत्यं विवाहश्च दंपत्योश्वामिता रतिः।
पूर्वकर्मानुसारेण सर्व सम्पद्यते सुखं ॥१॥ अथ रतिकाले पुरुषो यद्वदति तस्य प्रमाणतामाह
रतिकाले यन्नास्ति कामार्तो यन्न ब्रूत्ते पुमान् न चैतत्प्रमाणं ॥ २२ ॥
टीका-रतिकाले कामार्तः तन्नास्ति यन्न वदति तस्य प्रमाणता नास्ति । न तेनासत्येन सलितो (?)। तस्माद्रतपुरुषेण सत्यानृतैवचनैः सानुरागा भार्या कर्तव्या । तथा च राजपुत्रः
नान्यचिन्तां भजेन्नारी पुरुषः कामपंडितः।
यतो न दर्शयेद्भावं नैवं गर्भ ददाति च ॥१॥ अथस्त्रीपुरुषयोः प्रीतिप्रमाणमाह--
तावत्स्त्रीपुरुषयोः परस्परं प्रीतिर्यावन्न प्रातिलोम्यं कलहो रतिकैतवं च ॥ २३॥
टीका—स्त्रीपुरुषयोस्तावन्नैरन्तर्येण प्रीतिर्भवति यावत्प्रातिलोम्यं वर्षाधर्मस्तथाकलहस्तथा रतिकैतवं रतिकौटिल्यं । तथा च राजपुत्रः--
ईषत्कलहकौटिल्यं दम्पत्योर्जायते यदा ।
तथा कोशविदेहंगस्ताभ्यामेव परस्परं ॥१॥ अथ तादात्विकस्य रणे यद्भवति तदाह
तादात्विकबलस्य कुतो रणे जयः प्राणार्थः स्त्रीषु कल्याणं वा ॥ २४ ॥
टीका-तादात्विकबलस्य तावन्मात्रसैन्यबलस्य युद्धे विजयो न भवति किमर्थं शत्रुरतिगण्यते तस्माद्युद्धकाले प्रभूतं सैन्यं कर्तव्यमिति । तथा च शुक्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org