SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक-समुद्देशः । ३८७ भवति, गुरुतरप्रयोजनस्य नाशमवलोक्यासत्यमप्युक्तं सत्यमेव नासत्यं । तथा च वादरायणः-- तदसत्यमपि नासत्यं यदत्र परिगीयते । गुरुकार्यस्य हानि च ज्ञात्वा नीतिरिति स्फुटम्॥१॥ अथ यथासत्यवादो न भवति तदाहप्राणवधे नास्ति कश्चिदसत्यवादः ॥ १९ ॥ टीका-प्राणवधे सम्प्राप्ते न दोषः, असत्यमपि प्राणवधे वक्तव्यं । तथा च व्यास: नासत्ययुक्तं वचनं हिनस्ति न स्त्रीषु राजा न विवाहकाले । प्राणात्यये सर्वधनापहारी पंचानतान्याहुरपातकानि ॥१॥ अथार्थाय लोको यत्करोति तदाहअर्थाय मातरमपि लोको हिनस्ति किं पुनरसत्यं न भाषते।२०। टीका-अर्थाय धनार्थं लोको जनो मातरमपि हिनस्ति व्यापादयति। किं पुनरसत्यं न भाषते तस्मादर्थविषये विश्वासो न कार्य इति । तथा च शुक्रः अपि स्याद्यदि मातापि तां हिनस्ति जनोऽधनः। किं पुनः कोशपानाद्यं तस्मादर्थे न विश्वसेत् ॥१॥ अथ दैवायत्ता ये पदार्थास्तानाह सत्कलासत्योपासनं हि विवाहकर्म, दैवायत्तस्तु वधूवरयोर्निवाहः ॥ २१ ॥ ___टीका-सत्कलास्तावजानाति पुमान् बहत्तरीकलाकलापमपि निर्द्विका (१) मूलं धनी । तथासत्योपासनं हि स्फुटं करोति तन्निर्धनोऽसत्यजनः कोपनीयः। तथा च विवाहकर्म दैववशादकुलीनोऽपि कुलीनां कन्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy