SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३८६ नीतिवाक्यामृते अथर्णदातुरागन्तुकफलं यद्भवति तदाह-- ऋणदातुरासनं फलं परोपास्तिः कलहः परिभवः प्रस्तावेलाभश्च ॥ १६॥ __टीका-ऋणदातुर्धनिकस्यासन्नं प्रथमं फलं भवेत् परोपास्तिलक्षणं नित्यमेव ऋणकपार्वे याचितुं गच्छति । द्वितीयं कलहफलं । तृतीयं परिभवः कालान्तरेण तद्ददाति । तस्मादुद्धारकं नैव दात्यव्यमिति । तथा चात्रिः उद्धारकप्रदातॄणां त्रयो दोषाः प्रकीर्तिताः । स्वार्थदानेन सेवा च युद्धं परिभवस्तथा ॥१॥ अथ ऋणकस्य धनिकेन सस्नेहे तदा कालस्य परिणामः प्रोच्यते अदातुस्तावत्स्नेहः सौजन्यं प्रियभाषणं वा साधुता च यावनार्थावाप्तिः ॥ १७॥ ___टीका-अदातुः ऋणकस्य धनिकेन सह तावत्स्नेहः तावत्सौजन्यदर्शनं तावत्प्रियालापस्तावत्साधुत्वमात्मनो दर्शयति । यावकि? यावत्तस्य सकाशात् अर्थ न गृह्णाति । अर्थे गृहीते तु पुनः चतुष्टयं न भवति । तथा च शुक्रः तावत्स्नेहस्य बन्धोऽपि ततः पश्चाच्च साधुता। ऋणकस्य भवेद्यावत्तस्य गृह्णाति नो धनम् ॥ १॥ अथासत्यस्य स्वरूपमाह-- तदसत्यमपि नासत्यं यत्र न सम्भाव्यार्थहानिः ॥ १८ ॥ टीका-तदसत्यमपि नासत्यं भवति । यत्र किं ? यत्र न संभाव्यार्थहानिर्भवति संभाव्यो योऽर्थः प्रयोजनं तस्य हानिस्तन्न भवति । एतदुक्तं १ श्लोकवशवर्तिना टीकाकत्री “ प्रस्तावेऽर्थालाभश्च, अस्य व्याखा नैव कृता इति ज्ञायते। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy