SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक समुद्देशः । दुर्वाक्यं नैव यो ब्रूयादत्यर्थे कुपितोऽपि सन् । स महत्त्वमवाप्नोति समस्ते धरणीतले ॥ १ ॥ अथ गृहस्थस्य दोषमाह स किं गृहाश्रमी यत्रागत्यार्थिनो न भवन्ति कृतार्थाः ॥ १३ ॥ - टीका — यस्य गृहस्थस्य गृहं प्राप्ताः । के ते ? अर्थिनो याचकाः कृतार्थाः सन्तो न यान्ति किंचिदपि न लभन्ते इति तात्पर्यार्थः । तथा च गुरुः तृणानि भूमिरुदकं वाचा चैव तु सूनृता । दरिद्रैरपि दातव्यं समासन्नस्य चार्थिनः ॥ १ ॥ अथ तादात्विकस्य स्वरूपमाह - ऋणग्रहणेन धर्मः सुखं सेवा वणिज्या च तादात्विकानां नायतिहितवृत्तीनां ॥ १४ ॥ -- टीका - तादात्विकस्तदुगास्तेषां तावन्मात्रं वचनं भवति वा स्वल्पं तेषां धर्मः ऋणग्रहणेन कलंक प्राप्त्यान्यायः तथा तेषां सुखं राजसेवा वणिज्या च पण्यं नान्यत् सुखं ये पुनरायत्यां आयतिकाले हितवृत्तयो भवन्ति न तेषां ( ? ) । तथा च गर्ग: धर्मकृत्यं ऋणप्राप्त्या सुखं सेवा परं परं । तादात्विकविनिर्दिष्टं तद्धनस्य न चापरं ॥ १ ॥ अथ दानविषये यत्कर्तव्यं तदाह स्वस्य विद्यमानमर्थिभ्यो देयं नाविद्यमानं ।। १५ ।। टीका — अर्थिभ्यो याचकेभ्यो देयं दातव्यं । किं तत् ? विद्यमानं । कस्य ? स्वस्यात्मनः । यदात्मनो गृहे न भवति तन्न देयमभीष्टस्यापि । उक्तं च यतो गर्गेण - अविद्यमानं यो दद्यान्नृणां कृत्वापि वल्लभः । कुटुंबं पीड्यते येन तस्य पापस्य भाग्भवेत् ॥ १ ॥ ३८५ " १ दद्यादृण इति सुभाति । नीति०१०-२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy