________________
३८४
नीतिवाक्यामृते
टीका-समत्वं (अ) निष्ठुरत्वमित्यर्थः । तथा तालानुयायित्वं तालः पंचविधस्तस्यानुपृष्ठतो यत्तत् तालानुयायित्वं । तथा गेयाभिनेयानुगतत्वं । तथा श्लक्ष्णत्वं वाद्यदोषविहीनं । तथा सुव्यक्तयतिप्रयोगत्वं सुव्यक्ता ये यतयस्त्रयोऽपि नव तत्सुव्यक्तयतिप्रयोगत्वं । तथा श्रुतिसुखावहत्वं कर्णाभ्यां यद्वाद्यमानं सुखं भवति जनयति तच्छृतिसुखावहत्वं वाच्यमिति वाद्यगुणाः कथ्यन्ते ।
अथ नृत्यगुणा व्याख्यायन्ते--
दृष्टिहस्तपादक्रियासु समसमायोगः संगीतकानुगतत्वं सुश्लिष्टललिताभिनयाङ्गहारप्रयोगभावो रसभाववृत्तिलावण्यभाव इति नृत्यगुणाः ॥ ११ ॥
टीका-नृत्यविषये भरतेन षङ्गादयः प्रोक्ताः तथाञ्जलिपूर्वकाश्चतु:षष्टिप्रमाणहस्तविषयाः कथिताः, नव अष्टोत्तरशतं पादविक्षेपानां कथितं । तदेतदुक्तं भवति, दृष्टिहस्तपादानां सममेककालं समायोगो मेलापको गीतवाद्यवशेन यथोचितो यत्र भवति तत्र गीते संगीतकानुगतत्वं संगीतकं कालादिकं यत्पूर्व दृष्टिहस्तपादपूर्वकं एककालिकं यथोक्तो योऽभिनय उपाध्यायसूचितस्तेन योऽङ्गहारोङ्गविक्षेपस्तस्य योऽसौ प्रयोगः समाचरणं तस्य योऽसौ भावः स्फुटीकरणं यत्र नृत्ये । तथा रसभावो लावण्यं रसाः शृङ्गाराद्या नव संख्यास्तेषां ये भावास्तेषु यल्लावण्यं भरतेनोक्ता एकाशीतिप्रमाणास्तेषां याऽसौ वृत्तिवर्तनं तेन लावण्याश्रितं यन्नृत्यं तच्छस्यमिति नृत्यगुणाः ।
अथ महापुरुषस्य लक्षणमाह---- स खलु महान् यः खल्वार्को न दुर्वचनं ब्रूते ॥ १२ ॥
टीका-स पुरुषः खलु निश्चयेन महान् महत्वमाप्नोति । यः किं विशिष्टः ? न ब्रूते । किं तत् ? दुर्वचनं कस्यापि सम्मुखं । किंविशिष्टोऽपि ? आर्तोऽपि । तथा च शुक्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org