________________
प्रकीर्णकसमुद्देशः।
३८३
आलप्तिशुद्धिर्माधुर्यातिशयः प्रयोगसौन्दर्यमतीवमसृणता स्थानकम्पितकुहरितादिभावो रागान्तरसंक्रान्तिः परिगृहीतरागनिर्वाहो हृदयग्राहिता चेति गीतस्य गुणाः ॥९॥
टीका-एकस्तावत्प्रथममेवालप्तिशुद्धिः, आलप्तिशब्देन षड्ग-ऋषभगान्धार-मध्यम-पंचम-धैवत-निषादानां स्वराणां व्यक्तिरुच्यते । तस्याः शुद्धिः क्रिया, कथमेतेषां जीवविशेषाणां स्वरै.............. तद्यथा
मयूरः षङ्गमाचष्टे चकोरस्तैतिरार्षभः। अजा वदति गान्धारं क्रौञ्चो वदति मध्यमं ॥१॥ वसन्तकाले सम्प्राप्ते पंचमं कोकिलोऽपि च ।
अश्वश्च धैवतं प्राह निषादं कुंजरोऽपि च ॥१॥ आलप्तिशुद्धिस्ततः प्रथमतः परिज्ञेया । तथा माधुर्यातिशयो माधुर्य श्रुतिसुखो भवति अतिशयः तथा यत्र प्रयोगसौन्दर्य प्रयोगाः पदन्यासास्तेषां सौदर्य कोमलता। तथातीव मसृणता घनता । तथास्थानकंपितकुहरितादिभावः स्थानशब्देन त्रिमात्रः स्वर उच्यते तस्य कम्पितं धुनितं तथा कुहरितं संकोचनं ताभ्यां भावः स्वरूपं यत्र गीते। रागान्तरसतान्ती रागवेधः । परिगृहीतरागनिर्वाहो यत्र यस्मिन् रागे तद्गीतं प्रारब्धं ( तस्य निर्वाहः ) । तथा हृदयग्राहिता सदैव बहुगुणत्वात् हृदि धार्यते इति गीतस्य लक्षणं ।
अथ वाद्यगुणा व्याख्यायन्ते
समत्वं तालानुयायित्वं गेयाभिनेयानुगतत्वं श्लक्ष्णत्वं प्रव्यक्तयतिप्रयोगत्वं श्रुतिसुखावहत्वं चेति वाद्यगुणाः ॥ १० ॥
१ पुस्तके छिन्नमिदं सूत्रं, लिखितमूलपुस्तकासंयोजितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org