SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८२ नीतिवाक्यामृते नुपपन्नानि अयोग्यानि यानि पदानि तेषां उपन्यासः करणं यत्र । तथा अयथार्थयतिविन्यासत्वं अयथार्थोऽयुक्तार्थो यतिविन्यासः पदच्छेदन्यासो यत्र । तथाभिधानाभिधेयशून्यत्वं अभिधानशब्देन नाममाला प्रोच्यते तेषु अभिधेया: कथिता ये शब्दास्तेषां शून्यत्वं ते रहितत्वमपरै म्यैर्युक्तं तत्सदोषं काव्यं इति काव्यदोषाः । अथ कविगुणा व्याख्यायन्तेवचनकविरर्थकविरुभयकविश्चित्रकविर्वणकविर्दुष्करकविररोचकी सतुषाभ्यवहारी चेत्यष्टौ कवयः ॥ ७॥ ___टीका-वचनकविरेकस्तावत् यथा कालिदासवत् ललितवचनैः काव्यं करोति। अन्योऽर्थकविर्यथा भारवी गूढार्थ काव्यं करोति । अन्य उभयकविर्यथा माघो ललितवचनैर्गुढाथैः काव्यं करोति । अन्यश्चित्रकविः नाणमुतत्रं ( ? ) चित्रकाव्यं करोति । अन्यो वर्णकविः परवदक्षराडम्बरेण (?) सानुप्रासं काव्यं चाणिक्यवत् ..... अष्टौ कवयः । अथ कविसंग्रहगुणा व्याख्यायन्ते मनःप्रसादः, कलासु कौशलं, सुखेन चतुर्वर्गविषयाव्युत्पत्तिरासंसारं च यश इति कविसंग्रहस्य फलं ॥ ८ ॥ टीका-एकस्तावन्मनःप्रसादो गुणः । तथा कलासु कौशलं कवित्वविषये कला अक्षरलक्षणास्तासु कौशलं । तथा सुखेन चतुर्वर्गविषया व्युत्पत्तिः, चतुर्वर्गशब्देन धर्मार्थकाममोक्षा कथ्यते तेषां विषये निजनिजमार्गप्रदशास्तेषां सुखेन लीलया व्युत्पत्तेरनेकप्रकारत्वं यस्य कवित्वे दृश्यते । तथा च आसंसारं यशो यावत्संसारस्तावद्वयासवत् कीर्तिः । एतत्कविसंग्रहस्य कविभवस्य फलमिति । इति कविः संग्रहयति (?)। अथ गीतगुणा व्याख्यायन्ते Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy