________________
प्रकीर्णसमुद्देशः।
३८१
टीका--दूरादेवेक्षणं दूरादेवागच्छन्तमवलोकयति । तथा मुखप्रसादो मुखप्रसन्नता। तथा संप्रश्नेष्वादरः यदि किंचित्संप्रश्नं करोति तत्सादरः । तथा प्रियेषु वस्तुषु स्मरणं यानि तेन पूर्व प्रियाण्यभीष्टानि कृतानि तानि स्मरति । तथा परोक्षे गुणग्रहणं यदा समीपे न भवति तदा तद्णान् कीर्तयति। तथा तत्परिवारस्यानुनयवृत्तिः तत्परिवारस्य सदा सर्वकालं अनुनयवृत्तिविनयवर्तनं करोतीति सानुरागचिन्हानि । अथ काव्यगुणा व्याख्यायन्ते
श्रुतिसुखत्वमपूर्वाविरुद्धार्थातिशययुक्तत्वमुभयालंकारसम्पन्नत्वमन्यूनाधिकवचनत्वमतिव्यक्तान्वयत्वमिति काव्यस्य गुणाः
____टीका-श्रुतिसुखत्वं येन काव्येन श्रुतेन कर्णाभ्यां सुखं भवति । अपूर्वाविरुद्धार्थातिशययुक्तत्वं अपूर्वार्थाः केनापि नोक्ता अचर्चिताः, तथा अविरुद्धा दोषरहितास्तैरतिशययुक्तं यत् । तथोभयालंकारसम्पन्नत्वं अपूर्वार्थानां योऽसावलंकारस्ताभ्यां सम्पन्नत्वं युक्तत्वमिति । तथाऽन्यूनाधिकवचनं अन्यूनानि परिपूर्णानि अधिकानि वचनानि वाक्यानि यत्र । तथा व्यक्तान्वयत्वं अतिशयेन योऽसावुक्तिः मतिप्रभवः तेन युक्तं यत्काव्यमिति काव्यगुणाः ।
अथ काव्यदोषा व्याख्यायन्ते
अतिपरुषवचनविन्यासत्वमनन्वितगतार्थत्वं दुर्बोधानुपपन्नपदोपन्यासमयथार्थयतिविन्यासत्वमभिधानामिधेयशून्यत्वमिति काव्यस्य दोषाः ॥ ६॥ ___टीका----अतिपरुषाणां पाणिनीयसूत्रसदृशवचनानां विन्यासो रचना यत्र तत्सदोषं काव्यं । तथा अनन्वितगतार्थत्वं, अनन्वितोऽसंगतार्थो यथा । तथा दुर्बोधानुपपन्नपदोपन्यासत्वं दुर्बोधानि यानि पदानि तथाऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org