SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३८० नीतिवाक्यामृते wwwwwwwww ... .... .... मकशक्तिसम्पन्नः सम्यगृहापोहनं युक्तायुक्तविवेकः सम्यगवधारणं हृदि स्थापनं तस्य आगमः परिज्ञानं तत्र विषये यासौ शक्तिः समर्थता तया सम्पन्नो युक्त इति । तथा संप्रज्ञातसमस्तलिपिभाषा............ वर्णा ब्राह्मणक्षत्रियविट्छूद्राः तथा आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतिलक्षणास्तथा स्वो (परश्च) योऽसौ व्यवहार: तस्य स्थितिमा॑नं यस्य । तथाशुलेखनवाचनसमर्थो यो लेखनामाशु शीघ्रं लिखति तथा वाचनसर्थ इति सन्धिविग्रहिका गुणाः । अथ विरक्तजनस्य लिंगान्याह कथाव्यवच्छेदो व्याकुलत्वं मुखे वैरस्यमनवेक्षणं स्थानत्यागः साध्वाचरितेऽपि दोषोद्भावनं विज्ञप्ते च मौनमक्षमाकालयापनमदर्शनं:वृथाभ्युपगमश्चेति विरक्तलिंगानि ॥३॥ ___टीका-कथाविच्छेदः कथायां कथ्यमानायां विच्छेदं करोति न शृणोति । तथा व्याकुलत्वं याति कथां शृण्वन् । तथा मुखे वैरस्यं करोति । तथा अनवेक्षणं वार्तायां कथ्यमानायां संमुखं नावलोकयेत् । तथा स्थानत्यागोऽन्यत्रोत्थाय गमनं । साधुचरितेऽपि दोषोद्भावनं दोषकीर्तनं करोति विज्ञप्ते च मौनं करोति न प्रत्युत्तरं प्रयच्छति । तथा अक्षमाकालयापनं अक्षमया योऽसौ कालः प्रस्तावस्तस्य यापनं प्रापणं करोति । तथादर्शनं आस्यदर्शनं न प्रयच्छति । तथा वृथाभ्युपगमः सेवाद्वारेण यः कृतः तं व्यर्थतां नयति तेन रज्यते इति विरक्तजनस्य लिंगानि चिह्नानि ज्ञेयानि । अथ सानुरागलिंगानि दूरादेवेक्षणं, मुखप्रसादः, संप्रश्नेष्वादरः, प्रियेषु वस्तुषु स्मरणं, परोक्षे गुणग्रहणं, तत्परिवारस्य सदानुवृत्तिरित्यनुरक्तलिंगानि ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy