SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३२ प्रकीर्ण समुद्देशः । 80 अथ प्रकीर्णकसमुद्देशो व्याख्यायते । तत्रादावेव तस्य लक्षणमाहसमुद्र इव प्रकीर्णकसूक्तरत्नविन्यासनिबन्धनं प्रकीर्णकं ॥१॥ टीका – सूक्त एव रत्नानि सूक्तिरत्नानि सुभाषितरत्नानि विकी - र्णानि विस्तारितानि यानि सूक्तरत्नानि तेषां विन्यासः संश्रयो रचना तस्य निबन्धनं स्थानं च यत्र काव्ये तत्प्रकीर्णकं कथ्यते सूक्तिसुभाषितमयं । कस्मिन्निव ? समुद्र इव यथा समुद्रे प्रकीर्णरत्नानां निवासनिबन्धनं भवति तथा काव्यसमुद्रेऽपि । अथ सान्धिविग्रहिकस्य लक्षणमाह वर्णपदवाक्यप्रमाणप्रयोगनिष्णातमतिः सुमुखः सुव्यक्तो मधुरगम्भीरध्वनिः प्रगल्भः प्रतिभावान् सम्यगृहापोहावधारणगमकशक्तिसम्पन्नः संप्रज्ञात समस्तलिपि भाषावर्णाश्रमसमयखपव्यवहारस्थितिराशुलेखनवाचनसमर्थश्रेति सान्धिविग्रहिक गुणाः ॥ २ ॥ टीका - सम्यक् पदवाक्यप्रमाणप्रयोगनिष्णातमतिः पदानि - भक्त्यन्तानि वाक्यानि समाससंस्काराणि, प्रमाणं तर्कलक्षणं एतेषां विषये निष्णाता परिणता मतिर्यस्य स सान्धिविग्रहिको राजार्हः । तथा सुमुखः स्पष्टाक्षरवक्ता । तथा सुव्यक्तः यस्य स्पष्टाक्षराणि वदतो व्यक्तोऽर्थो जायते । तथा गंभीरमधुरध्वनिः गम्भीरो मेघगर्जितवत् मनोहरो ध्वनिर्यस्य स तथा यस्य प्रजल्पतः काकस्वरो न भवतीत्यर्थः । तथा प्रगल्भ उदास्वरितः । तथा प्रतिभावान् तेजस्वी । तथा सम्यगृहापोहावधारणग For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy