Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 425
________________ ३८८ नीतिवाक्यामृते प्राप्नोति सुकुलजोऽप्यकुलजामिति दैवायत्ता तु पुत्रपौत्रसमृद्धिर्भवति, अकाले वा गृहभंगः स्यात् । तथा च गुरु: विद्यापत्यं विवाहश्च दंपत्योश्वामिता रतिः। पूर्वकर्मानुसारेण सर्व सम्पद्यते सुखं ॥१॥ अथ रतिकाले पुरुषो यद्वदति तस्य प्रमाणतामाह रतिकाले यन्नास्ति कामार्तो यन्न ब्रूत्ते पुमान् न चैतत्प्रमाणं ॥ २२ ॥ टीका-रतिकाले कामार्तः तन्नास्ति यन्न वदति तस्य प्रमाणता नास्ति । न तेनासत्येन सलितो (?)। तस्माद्रतपुरुषेण सत्यानृतैवचनैः सानुरागा भार्या कर्तव्या । तथा च राजपुत्रः नान्यचिन्तां भजेन्नारी पुरुषः कामपंडितः। यतो न दर्शयेद्भावं नैवं गर्भ ददाति च ॥१॥ अथस्त्रीपुरुषयोः प्रीतिप्रमाणमाह-- तावत्स्त्रीपुरुषयोः परस्परं प्रीतिर्यावन्न प्रातिलोम्यं कलहो रतिकैतवं च ॥ २३॥ टीका—स्त्रीपुरुषयोस्तावन्नैरन्तर्येण प्रीतिर्भवति यावत्प्रातिलोम्यं वर्षाधर्मस्तथाकलहस्तथा रतिकैतवं रतिकौटिल्यं । तथा च राजपुत्रः-- ईषत्कलहकौटिल्यं दम्पत्योर्जायते यदा । तथा कोशविदेहंगस्ताभ्यामेव परस्परं ॥१॥ अथ तादात्विकस्य रणे यद्भवति तदाह तादात्विकबलस्य कुतो रणे जयः प्राणार्थः स्त्रीषु कल्याणं वा ॥ २४ ॥ टीका-तादात्विकबलस्य तावन्मात्रसैन्यबलस्य युद्धे विजयो न भवति किमर्थं शत्रुरतिगण्यते तस्माद्युद्धकाले प्रभूतं सैन्यं कर्तव्यमिति । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466