Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
३१ विवाह-समुद्देशः।
अथ विवाहसमुद्देशो व्याख्यायते । तत्रादावेव पुंसो व्यवहार समयमाह--
द्वादशवर्षा स्त्री षोडशवर्षः पुमान् प्राप्तव्यवहारौ भवतः॥१॥
टीका-अत्र व्यवहारशब्देन सुरतोपचारः कथ्यते। कस्मिन् ? यदा स्त्री द्वादशवर्षा भवति तथा पुरुषः षोडशवार्षिकश्च तदा तयोर्व्यवहारधर्मोऽनुरागाय भवति । तथा च राजपुत्रः
यदा द्वादशवर्षा स्यान्नारी षोडशवार्षिकः।
पुरुषः स्यात्तदा रंगस्ताभ्यां मैथुनजः परः॥१॥ अथ स्त्रीपुरुषयोर्यथा व्यवहारात्कुलवृद्धिर्भवति तदाह-~विवाहपूर्वो व्यवहारचातुवर्ण्य कुलीनयति ॥ २ ॥ टीका-कुलीनयति सन्तानं कुलीनं कुलीकरोति । कोऽसौ ? विवाहः परिणयनं । किंविशिष्टं ? चातुर्वर्ण्य वर्ण्यमनुलक्ष्यीकृत्य । एतदुक्तं भवति, अनुवयं ब्राह्मणक्षत्रियवैश्यशूद्राणां वर्णतया योसौ विवाहस्तत्र तत्सन्तानं भवति तत्स्वकुलधर्मेण वर्तत इति, न कदाचिद्वयभिचरति । तथा च जैमिनिः
सुवर्णा कन्यका यस्तु विवाहयति धर्मतः।
सन्तानं तस्य शुद्धं स्यानाकृत्येषु प्रर्वतते ॥१॥ अथ विवाहस्य लक्षणमाह
युक्तितो वरणविधानमग्निदेवद्विजसाक्षिकं च पाणिग्रहण विवाहः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466