SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३१ विवाह-समुद्देशः। अथ विवाहसमुद्देशो व्याख्यायते । तत्रादावेव पुंसो व्यवहार समयमाह-- द्वादशवर्षा स्त्री षोडशवर्षः पुमान् प्राप्तव्यवहारौ भवतः॥१॥ टीका-अत्र व्यवहारशब्देन सुरतोपचारः कथ्यते। कस्मिन् ? यदा स्त्री द्वादशवर्षा भवति तथा पुरुषः षोडशवार्षिकश्च तदा तयोर्व्यवहारधर्मोऽनुरागाय भवति । तथा च राजपुत्रः यदा द्वादशवर्षा स्यान्नारी षोडशवार्षिकः। पुरुषः स्यात्तदा रंगस्ताभ्यां मैथुनजः परः॥१॥ अथ स्त्रीपुरुषयोर्यथा व्यवहारात्कुलवृद्धिर्भवति तदाह-~विवाहपूर्वो व्यवहारचातुवर्ण्य कुलीनयति ॥ २ ॥ टीका-कुलीनयति सन्तानं कुलीनं कुलीकरोति । कोऽसौ ? विवाहः परिणयनं । किंविशिष्टं ? चातुर्वर्ण्य वर्ण्यमनुलक्ष्यीकृत्य । एतदुक्तं भवति, अनुवयं ब्राह्मणक्षत्रियवैश्यशूद्राणां वर्णतया योसौ विवाहस्तत्र तत्सन्तानं भवति तत्स्वकुलधर्मेण वर्तत इति, न कदाचिद्वयभिचरति । तथा च जैमिनिः सुवर्णा कन्यका यस्तु विवाहयति धर्मतः। सन्तानं तस्य शुद्धं स्यानाकृत्येषु प्रर्वतते ॥१॥ अथ विवाहस्य लक्षणमाह युक्तितो वरणविधानमग्निदेवद्विजसाक्षिकं च पाणिग्रहण विवाहः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy