SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३७४ नीतिवाक्यामृते टीका–एतद्गुणविशिष्टं यत्पाणिग्रहणं हस्तग्रहणं स विवाह उच्यते युक्तितो वरणविधानं, अग्निदेवद्विजसाक्षिकं च यत् कुलक्रमेण कन्याया वरैर्वरणं संप्रदानं विधानं भवति । किंविशिष्टं ? अग्निदेवद्विजसाक्षिकं प्रत्यक्षं । तथा च भारद्वाजः वरणं युक्तितो यञ्च वह्निब्राह्मणसाक्षिकं । विवाहः प्रोच्यते शुद्धो योऽन्यस्य स्याञ्च विप्लवः ।।१॥ अथाष्टविधस्य विवाहस्य लक्षणमाह ब्राहयो दैवस्तथैवार्षःप्राजापत्यस्तथापरः। गन्र्धवश्चासुरश्चैव पैशाचो राक्षस्तथा ॥१॥ अथ ब्राह्मयविवाहस्य लक्षणमाहस ब्राह्मयो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते ॥४॥ अथ दैवविवाहस्य लक्षणमाह स दैवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ॥ ५॥ तथा च गुरु:. कृत्वा यज्ञविधानं तु यो ददाति च ऋत्विजः । समाप्तौ दक्षिणां कन्यां दैवं वैवाहिकं हि तत् ॥१॥ अथार्षलक्षणमाहगोमिथुनेपुरःसरं कन्यादानादार्पः ॥ ६॥ १ मुद्रितमूलपुस्तके लिखितमूलपुस्तके च नैष श्लोकः । २ स ब्राह्मयो विवाहो, एतावन्मात्र एव पाठोऽस्मादग्रेतनः पाठस्तु च्छिन्नः स च मूलपुस्तकद्व. यात्संयोजितः। ३ कल्पितेयमवतरणिका । ४ " स दैवो विवाहो'' इति पर्यंतः पाठो मूल पुस्तकद्वयात्संयोजितः । ५ गोभूमिसुवर्णपुरःसरमिति पाठान्तरं लिखितमूलपुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy