SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ विवाहसमुद्देशः । कन्यां दत्वा पुनर्दद्याद्यत्र गोमिथुनं परं । वराय दीयते सोऽत्र विवाहश्वार्षसंज्ञितः ॥ १ ॥ अथ प्राजापत्यस्य लक्षणमाह 'विनियोगेन कन्याप्रदानात्प्राजापत्यः ॥ ७ ॥ तथा च गुरु: धनिनो धनिनं यत्र विषये कन्यकामिह । सन्तानाय स विज्ञेयः प्राजापत्यो मनीषिभिः ॥ १ ॥ ---- एते चत्वारो धर्म्या विवाहाः ॥ ८ ॥ ar गन्धर्वस्य लक्षणमाह तथा च गुरुः ww मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः सम वायाद्गान्धर्वः ॥ ९ ॥ पितरौ समतिक्रम्य यत्कन्या भजते पतिं । सानुरागा सरंगं च स गान्धर्व इति स्मृतः ॥ १ ॥ अथासुरविवाहस्य स्वरूपमाह - पणबन्धेन कन्याप्रदानादासुरः ॥ १० ॥ तथा च गुरु: तथा च गुरुः मूल्यं सारं गृहीत्वा च पिता कन्यां च लोभतः । सुरूपामथवृद्धाय विवाहश्वासुरो मतः ॥ १ ॥ अथ पैशाचस्य लक्षणमाहसुप्तप्रमत्तकन्यादानात्पैशाचः ॥ ११ ॥ ३७५ सुप्तां वाथ प्रमत्तां वा यो मत्वाथ विवाहयेत् । कन्यकां सोऽत्र पैशाचोः विवाहः परिकीर्तितः ॥ १ ॥ १ त्वं भव अस्य महाभाग्यस्य सधर्मचारिणीति विनि० इत्यादि पाठान्तरं मूलपुस्तकद्वये । २ अस्य स्थाने राजापत्यस्येति पाठः पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy