SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३७६ नीतिवाक्यामृते अथ राक्षसविवाहस्य स्वरूपमाहकन्यायाः प्रसह्यादानाद्राक्षसः ॥ १२ ॥ रुदतां च बन्धुवर्गाणां हठाद्गुरुजनस्य च । गृह्णाति यो वरात्कन्यां स विवाहस्तु राक्षसः ॥ १॥ एते चत्वारोऽधा अपि नाधा यद्यस्ति वधूवरयोरनपवादं परस्परस्य भाव्यत्वं ॥ १३ ॥ अथ कन्या यैदूषणैर्न विवाह्यते तान्याह उन्नतत्वं कनीनयोः, लोमशत्वं जंघयोरमांसलत्वमूर्वोरचारुत्वं कटिनाभिजठरकुचयुगलेषु, शिरालुत्वमशुभसंस्थानत्वं च बाह्वोः, कृष्णत्वं तालुजिह्वाधरहरीतकीषु, विरलविषमभावो दशनेषु, कूपत्वं कपोलयोः, पिंगलत्वमक्ष्णोर्लग्नत्वं पि(चि ) ल्लिकयोः, स्थपुटत्वं ललाटे, दुःसन्निवेशत्वं श्रवणयोः, स्थूलकपिलपु (प) रुषभावः केशेषु, अतिदीर्घातिलघुन्यूनाधिकता समकटकुब्जवामनकिराताङ्गत्वं जन्मदेहाभ्यां समानताधिकत्वं चेति कन्यादोषाः सहसा तगृहे स्वयमाहूतगतस्य वा व्यक्ता व्याधिमती रुदती पतिघ्नी सुप्ता स्तोकायुष्का बहिर्गता कुलटाप्रसन्ना दुःखिता कलहोद्यता परिजनोद्वासिन्यप्रियदर्शना दुर्भगेति नैतां वृणीत कन्याम् ॥ १४ ॥ टीका—गतार्थ । अथ कन्यावरयोः शिथिलं यत्पाणिग्रहणं भवति तस्य दूषणमाहशिथिले पाणिग्रहणे वरः कन्यया परिभूयते ॥ १५ ॥ तथा च नारद:--- १ निटेले इति अन्यः पाठः । २ भुक्का इत्यपरः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy