SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ विवाहसमुद्देशः । शिथिलं पाणिग्रहणं स्यात्कन्यावरयोर्यदा । परिभूयते तदा भर्ता कान्तया तत्प्रभावतः ॥ १ ॥ अथ वरस्य कन्यामुखमपश्यतो यद्भवति तदाहमुखमपश्यतो वरस्यानमीलितलोचना कन्या भवति प्रचण्डा ॥ १६ ॥ ३७७ टीका —— वेदिमध्यगतायाः कन्याया मुखं यदा भर्ता न पश्यति तदा कन्या प्रचण्डा भवति । तथा च जैमिनि: मुखं न वीक्षते भर्ता वेदिमध्ये व्यवस्थितः । कन्याया वीक्षमाणायाः प्रचण्डा सा भवेत्तदा ॥ १ ॥ अथ शयने कन्या योः प्रथमदिवसे यदा भर्तुरपमानं करोति तदाहसह शयने तूष्णीं भवन् पशुवन्मन्येत ॥ १७ ॥ बलादाक्रान्ता जन्मविद्वेष्यो भवति ॥ १८ ॥ धैर्य चातुर्यायत्तं हि कन्याविस्रभ्भणं ॥ १९ ॥ समविभवाभिजनयोरसमगोत्रयोश्च विवाहसम्बन्धः ॥ २० ॥ महतः पितुरैश्वर्यादल्पमवगणयति ।। २१ ।। अल्पस्य कन्यापितुर्दीस्थ्यं महता कष्टेन विज्ञायते ॥ २२ ॥ अल्पस्य महता सह संव्यवहारे महान् व्ययोऽल्पश्चायः ||२३|| वरं वेश्यायाः परिग्रहो नाविशुद्धकन्याया परिग्रहः ॥ २४ ॥ वरं जन्मनाशः कन्यायाः नाकुलीनेष्ववक्षेपः ॥ २५ ॥ सम्यग्वृत्ता कन्या तावत्सन्देहास्पदं यावन्न पाणिग्रहः ॥ २६ ॥ विकृतप्रत्यूढापि पुनर्विवाहमर्हतीति स्मृतिकाराः ॥ २७ ॥ आनुलोम्येन चतुस्त्रिद्विवर्णाः कन्याभाजनाः ब्राह्मणक्षत्रियविशः ।। २८ ।। १ मुखं पश्यत इत्यन्यः पाठः । २ कन्यायाः पुस्तके पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy