________________
युद्धसमुद्देशः ।
आत्मशक्तिमजानानो युद्धं कुर्याद्वलीयसा ।
सार्धं स च करोत्येव शिरसा गिरिभेदनं ॥ १ ॥
अथ राज्ञा यथा कार्ये तदाह
सामसाध्यं युद्धसाध्यं न कुर्यात् ॥ २५ ॥
टीका -- यत्कार्य प्रयोजनं सान्ना सिद्ध्यति तद्युद्धेन न सिद्धति | तथा च वल्लभदेव :
साम्नैव यत्र सिद्धिस्तत्र न दण्डो बुधैर्विनियोज्यः । पित्तं यदि शर्करया शाम्यति ततः किं तत्पटोलेन ॥ १ ॥ अथ भूयोऽपि साममाहात्म्यमाह - गुडादभिप्रेतसिद्धौ को नाम विषं भुञ्जीत ॥ २६ ॥ टीका — गुडेन भक्षितेन यद्यभिप्रेतसिद्धिर्वाञ्छितसिद्धिर्भवति शरीरस्य तत्को नाम हो विषमुपभुञ्जीत विपं भक्षयेत् । तथा च हारीत:गुडास्वादनतः शक्तिर्यदि गात्रस्य जायते । आरोग्यलक्षणा नाम तद्भक्षयति को विषं ॥ १ ॥
अथ मूर्खस्य स्वरूपमाहअल्पव्ययभयात्सर्वनाशं करोति मूर्खः ॥ २७ ॥
टीका -- यो मर्त्यो मूर्खो भवति स स्वल्पव्ययभयात् सर्वनाशं करोति । एतदुक्तं भवति, यो बलवता स्नेहेन याचितः स्वल्पं न प्रयच्छति स सर्वस्वं तस्मै ददाति यतो बलात्कारेण भूभुजा गृह्यते । तथा च वल्लभदेव:
▬▬▬▬▬▬▬▬▬
▬▬▬▬▬▬▬▬▬▬▬▬▬▬
हीनो नृपोऽल्पं महते नृपाय यायाचितो नैव ददाति साम्ना । कदर्यमाणेन ददाति खारिं तेषां स चूर्णस्य पुनर्ददाति ॥ १ ॥
अथ मन्दमतेः स्वरूपमाह -
――
Jain Education International
३५१
For Private & Personal Use Only
www.jainelibrary.org