Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
युद्धसमुद्देशः ।
३४९
नाप्रतिग्रहो युद्धमुपेयात् । ॥ १८ ॥
टीका-नोपेयात् न गच्छेत् । कं? युद्धं संग्रामं । कोऽसौ ? राजा। किंविशिष्टः ? अप्रतिग्रह एकाकी । एकाकिना भूपतिना संग्रामे न गन्तव्यं । तथा च गुरु:
एकाकी यो व्रजेद्राजा संग्राम सेव्यवर्जितः।
स नूनं मृत्युमाप्नोति यद्यपि स्याद्धनंजयः ॥१॥ अथ संग्रामकाले पार्थिवप्रतिग्रहकरणस्वरूपमाह
राजव्यञ्जनं पुरस्कृत्य पश्चात्स्वाम्यधिष्ठितस्य सारबलस्य निवेशनं प्रतिग्रहः ॥ १९ ॥
टीका-राजव्यञ्जनं राजचिन्हं स्वामिनं पुरस्कृत्यः पुरतः कृत्वा अग्रे कृत्वा पश्चात्तस्य सारबलं प्रधानसैन्यं ध्रियते यत्स प्रतिग्रहः स्यात्। एतदुक्तं भवति, भूपते: पश्चात् युद्धकाले उत्तमबलनिवेशनं क्रियते स पतिग्रहः । तथा च नारदः
स्वामिनं पुरतः कृत्वा तत्पश्चादुत्तमं बलं । ध्रियते युद्धकाले यः स प्रतिग्रहसंशितः॥१॥ अथ सप्रतिग्रहबलस्य युद्धकाले यद्भवति तदाहसप्रतिग्रहं बलं साधु युद्धायोत्सहते ॥ २० ॥
टीका-उत्सहते उत्साहं करोति । किं तत् ? बलं सैन्यं । किमर्थं ? युद्धाय संग्रामाय । किंविशिष्टं बलं ? सप्रतिग्रहं सह प्रतिग्रहेण वर्तते इति सप्रतिग्रहं राज्ञ उपस्थितेनेत्यर्थः । तथा च शुक्रः
राजा पुरस्थितो यत्र तत्पश्चात्संस्थितं बलं ।
उत्साहं कुरुते युद्धे ततः स्याद्विजये पदं ।। १ ।। अथ युद्धकाले यादृशी भूमिः पार्थिवेन समाश्रयणीया तस्या लक्षणमाह--
पृष्टतः सदुर्गजला भूमिबलस्य महानाश्रयः ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466