SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३४९ नाप्रतिग्रहो युद्धमुपेयात् । ॥ १८ ॥ टीका-नोपेयात् न गच्छेत् । कं? युद्धं संग्रामं । कोऽसौ ? राजा। किंविशिष्टः ? अप्रतिग्रह एकाकी । एकाकिना भूपतिना संग्रामे न गन्तव्यं । तथा च गुरु: एकाकी यो व्रजेद्राजा संग्राम सेव्यवर्जितः। स नूनं मृत्युमाप्नोति यद्यपि स्याद्धनंजयः ॥१॥ अथ संग्रामकाले पार्थिवप्रतिग्रहकरणस्वरूपमाह राजव्यञ्जनं पुरस्कृत्य पश्चात्स्वाम्यधिष्ठितस्य सारबलस्य निवेशनं प्रतिग्रहः ॥ १९ ॥ टीका-राजव्यञ्जनं राजचिन्हं स्वामिनं पुरस्कृत्यः पुरतः कृत्वा अग्रे कृत्वा पश्चात्तस्य सारबलं प्रधानसैन्यं ध्रियते यत्स प्रतिग्रहः स्यात्। एतदुक्तं भवति, भूपते: पश्चात् युद्धकाले उत्तमबलनिवेशनं क्रियते स पतिग्रहः । तथा च नारदः स्वामिनं पुरतः कृत्वा तत्पश्चादुत्तमं बलं । ध्रियते युद्धकाले यः स प्रतिग्रहसंशितः॥१॥ अथ सप्रतिग्रहबलस्य युद्धकाले यद्भवति तदाहसप्रतिग्रहं बलं साधु युद्धायोत्सहते ॥ २० ॥ टीका-उत्सहते उत्साहं करोति । किं तत् ? बलं सैन्यं । किमर्थं ? युद्धाय संग्रामाय । किंविशिष्टं बलं ? सप्रतिग्रहं सह प्रतिग्रहेण वर्तते इति सप्रतिग्रहं राज्ञ उपस्थितेनेत्यर्थः । तथा च शुक्रः राजा पुरस्थितो यत्र तत्पश्चात्संस्थितं बलं । उत्साहं कुरुते युद्धे ततः स्याद्विजये पदं ।। १ ।। अथ युद्धकाले यादृशी भूमिः पार्थिवेन समाश्रयणीया तस्या लक्षणमाह-- पृष्टतः सदुर्गजला भूमिबलस्य महानाश्रयः ॥ २१ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy