________________
३५०
नीतिवाक्यामृते
टीका-युद्धकाले यस्य सैन्यस्य पृष्टिप्रदेशे सदुर्गजला भूमिः, दुर्गेण जलेन सह भूमिर्भवति सा तस्य बलस्य महान् आश्रयः स्थानं भवति । एतदुक्तं भवति पराजयेऽपि प्राप्ते दुर्गप्रवेश: स्यात् जलप्राप्तिश्च । तथा च गुरु:
जलदुर्गवती भूमिर्यस्य सैन्यस्य पृष्टतः।
पृष्टदेशे भवेत्तस्य तन्महाश्वासकारणं ॥१॥ अथ जलदुर्गवत्या भूमेः पृष्टतायाः कारणमाहनद्या नीयमानस्य तटस्थपुरुषदर्शनमपि जीवितहेतुः ॥२२॥
टीका-......... ..............। एतदुक्तं भवति, सदुर्गजला नदी जीवितस्य सेनाया महाश्वासं करोति । तथा च जैमिनिः---
नीयमानेऽत्र यो नद्या तटस्थं वीक्ष्यते नरं।
हेतुं तं मन्यते सोऽत्र जीवितस्य हितात्मनः ॥१॥ अथ जलस्य माहात्म्यमाहनिरन्नमपि सप्राणमेव बलं यदि जलं लभेत ॥ २३ ॥
टीका-यदि अन्नं न प्राप्यते सप्राणमेव बलं सावष्टंभमेव यदि तावज्जलं लभेत । एतस्मात्कारणात् युद्धकाले जलं पृष्टिदेशे नीयते । यदि कथमपि पराजयो भवति तत्पृष्टस्थं जलं प्राणानां रक्षाय भवति अन्नबाह्यमपि । तथा च भारद्वाजः--
अन्नाभावादपि प्रायो जीवितं न जलं विना ।
तस्माद्युद्धं प्रकर्तव्यं जलं कृत्वा च पृष्टतः ॥१॥ अथात्मशक्तिमजानतः परैः सह युद्धयतो यद्भवति तदाह
आत्मशक्तिमविज्ञायोत्साहः शिरसा पर्वतभेदनमिव ॥२४॥ टीका--आत्मशक्तिमविज्ञायाज्ञात्वाऽजानन् यः परेण युद्धं करोति तस्येतयुद्धं कीदृशं ? शिरसा मस्तकेन पर्वतभेदनमिव पर्वतस्फोटनमिव । - तथा च कौशिक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org