SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते कथं ? पतंगवत् । कस्यां ? दीपशिखायां । यथा दीपशिखायां पतितः पतङ्गो निश्चितं विनाशमवाप्नोति तथा बलवति शत्रौ दुर्बलोऽपि तस्मादपसरणं कार्य । तथा च गौतमः बलवन्तं रिपुं प्राप्य यो न नश्यति दुर्बलः। स नूनं नाशमभ्यति पतंगो दीपमाश्रितः॥१॥ अथ दैवस्य लक्षणमाहजीवितसम्भवे देवो देयात्कालबलम् ॥ १५॥ टीका-यदा पुरुषे जीवितसम्भवो भवति दीर्घायुर्भवति तदा दैवं प्राक्तनं कर्म तस्य कालबलं तस्मिन् काले तद्ददाति येन दुर्बलोऽपि बलवन्तं व्यापादयतीति । तथा च शुक्रः-- पुरुषस्य यदायुः स्यादुर्बलोऽपि तदा परं। हिनस्ति चेद्बलोपेतं निजकर्म प्रभावतः॥१॥ अथ बलस्य सारेतरतामाह--- वरमल्पमपि सारं बलं न भूयसी मुण्डमण्डली ॥ १६ ॥ टीका-वरं प्रधानं । स्वल्पं स्तोकमपि । सारं उत्तमं । बलं सैन्यं । न भूयसी प्रभूतापि । मुण्डमण्डली असारसंघातः । तथा च नारद: वरं स्वल्पापि च श्रेष्ठा नास्वल्पापिच कांतरा। भूपतीनां च सर्वेषां युद्धकाले पताकिनी ॥१॥ अथासारबलस्य स्वरूपमाह---- असारबलभंगः सारबलभंगं करोति ॥ १७ ॥ टीका-यदसारबलं तत्परचक्रे दृष्टमात्रे भज्यते तस्य भंगो सारबलमपि भज्यते तस्मादसारवलं न कर्तव्यं । तथा च कौशिकः कातराणां च यो भंगो संग्रामे स्यान्महीपतेः । स हि भंगं करोत्येव सर्वेषां नात्र संशयः ॥१॥ अथ भूभुजा संग्रामे यथा गन्तव्यं तथाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy